SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ २२ प्रमाणनयतत्त्वालोकालङ्कारः [परि. १ सू. १ कायामेव च परार्थानुमानलक्षणे 'त्रिरूपस्य लिङ्गस्य यदाख्यानं तत्परार्थमनुमानम्' इति च व्याचक्षाण इत्यक्षुण्णं ते वैचक्षण्यमिति । किञ्च असम्भवाव्याप्त्यतिव्याप्तयस्त्रयो दोषा निषेधनीया लक्षणे विचक्षणैः । न च प्रत्यक्षशब्दावाच्ये सर्वस्मिन्नपि वस्तुनि ५ निर्विकल्पकत्वाभ्रान्तत्वे सम्भवत इत्यसम्भवातिव्याप्त्योरसम्भवेऽप्यव्याप्तिः प्राप्तैव प्रत्यक्षलक्षणस्य । तथागतमेकमन्तरेणापरेषां सविकल्पक ज्ञानेऽपि प्रत्यक्षशब्दवाच्यत्वस्य प्रसिद्धेः । न च तत्र सविकल्पकत्वं पराकृत्य निर्विकल्पकत्वकल्पनां भवानप्यातिष्ठते । अथ यत्तद्भवतामस्माकं चेत्यादेस्तत्र तत्राभिधानाद्यत्परेषामस्माकं च प्रत्यक्षशब्दवाच्यत्वेन प्रसिद्धं स्यात् तस्यैव कल्पनापोढत्वादिविधिरभिधीयते । न चास्माकं सविकल्पकज्ञानं तच्छब्दवाच्यत्वेन प्रसिद्धमित्यव्याप्तेरप्राप्तिरेवेति चेत् । तर्हि परेषां शब्दब्रह्माद्वैतवादिनां च न किञ्चिन्निर्विकल्पकं ज्ञानं प्रत्यक्षशब्दवाच्यत्वेन प्रसिद्धमिति तत्राप्युभयप्रसिद्धयसिद्धेर्न तद्विधिरविरुद्धः स्यात् । अथ केषांचित् परेषामपि निर्विकल्पकमपि ज्ञानं तच्छब्दवाच्यत्वेन प्रसिद्धमेवेति चेत् तर्हि कस्यचित्परस्यापि स्वपरव्यवसाय्यपि ज्ञानं किं न प्रसिद्धमवबुध्यसे । अपि च भिक्षो विप्रतिपन्नान् प्रति लक्षणं प्रणीयते इत्याचक्षाणोऽप्यविप्रतिपन्नेभ्य एव तदुपदिशसि सिद्धसाध्यतां च नावधारयसीति किमभिदध्महे । ननु सम्यग्ज्ञानस्य ज्ञापयितुमुपक्रान्तत्वात् तद्भेद एवेदं प्रत्यक्षं ततश्च प्रत्यक्षमिति यत्प्रसिद्धं सम्यग्ज्ञानं तस्यैव कल्पनापोढत्वादिविधिः । नच परप्रतीतं सविकल्पकं प्रत्यक्षं सम्यग्ज्ञानं विसंवादकत्वादिति चेत् । तर्हि कुकारुकस्येवैकं सन्धित्सतोऽन्यत्प्रच्यवते । भवति ह्येवमभ्रान्तपदस्यापार्थकत्वं सम्यग्ज्ञानस्य भ्रान्तत्वायोगात् । अथ समर्थित एवाभ्रान्तपदस्थार्थो विप्रतिपत्तिप्रतिक्षेपो नाम ! गच्छवृक्षादिर्दशनस्य हि १'तक्षा च तन्तुवायश्च नापितो रजकस्तथा ! पञ्चमश्चर्मकारश्च कारवः शिल्पिनो मताः ॥ कुत्सिताः कारवः कुकारवः । "Aho Shrut Gyanam"
SR No.009662
Book TitleSyadvada Ratnakar Part 1
Original Sutra AuthorVadidevsuri
AuthorMotilal Laghaji
PublisherMotilal Laghaji
Publication Year
Total Pages274
LanguageSanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy