SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ परि. । सू. २] स्याद्वादरत्नाकरसहितः स्वपरव्यवसायिज्ञानमद्यापि प्रसिद्धम् । न चाप्रसिद्धस्यानुवादो निरपवादः । तदेवमनुवादः सर्वनाम्ना यच्छब्देन स्वपरव्यवसायिज्ञानस्य विशेषणमेतान् प्रत्यप्रातीतिकमेवेति चेत् । तर्हि समस्तप्रमाणप्रमेयापलापिनःशून्यतावादिनः प्रत्यक्षानुमाने । प्रत्यक्षैकपक्षपातिनो नास्तिकस्य चाऽनुमानं न प्रतीतमेवेत्येतौ प्रति लक्ष्ययोः प्रत्यक्षानुमानयोरपि कुतोऽ- ५ नुवादसर्वनाम्ना विशेषणं रमणीयमिति तल्लक्षणसूत्रेष्वदूषणं स्यात् । अथ विशेषशब्दार्थमात्रतः प्रत्यक्षादेस्तयोरपि प्रतीतिसम्भवादनुवादसर्वनाम्ना तस्य विशेषणं रमणीयमिति चेत् । इतरत्रापि तथाप्रतीतिमास्थाय किं न तत्समर्थयसे । अथ तौ प्रति प्रथमं लक्ष्य प्रसाध्य तस्य यच्छब्देन विशेषणमिति चेत्- साधो सौगत भूभर्तुर्द्धर्मकीर्तेनिकेतने ।। ___व्यवस्थां कुरुषे नूनमस्थापितमहत्तमः ॥ १६ ॥ स हि महात्मा विनिश्चये प्रत्यक्षमेकम् ' न्यायविन्दौ तु 'प्रत्यक्षांनुमाने द्वे ' अप्यप्रसाध्यैव तल्लक्षणानि प्रणयति स्म । किञ्च शब्दानित्यत्वसिद्धये कृतकत्वमसिद्धमपि सर्वमुपन्यस्य पश्चात् १५ तत्सिद्धिमभिदधानोऽपि न लक्षणस्य तामनुमन्यसे इति स्वाभिमानमात्रम् । अपि च प्रत्यक्षलक्षणव्याख्यालक्षणे 'लक्ष्यलक्षणभावविधानवाक्ये' इत्यादिना लक्षणस्यैव विधिमभिधत्से विधेरैवापराधान्न बुद्धः । यतो न्यायविनिश्चयटीकायां स्वार्थानुमानस्य लक्षणे, 'तत्कथं त्रिरूपलिङ्गग्राहिण एव दर्शनस्य नानुमानत्वप्रसङ्ग' इति पर्यनुयुञ्जान एतदेव सामर्थ्यप्राप्तं दर्शयति यदनुमेयेऽर्थे ' ज्ञानं तत्स्वामिति' इतीत्यनुमन्यमानश्चानुमापयसि स्वयमेव लक्ष्यस्यापि विधिम् । स्पष्टमेवाभिदधासि च न्यायविन्दुवृत्तौ एतस्यैव लक्षणे 'त्रिरुपाच्च लिङ्गाद्यदनुमेयालम्बनं ज्ञानं तत्स्वार्थमनुमानम्' इति, विनिश्चयटी १ धर्मकीर्तिकृतः प्रमाणविनिश्चयनामको ग्रन्थोऽयम् । अस्य धर्मोत्तराचार्येण व्याख्या कृता । २ न्या. बि. परि. १ सु. ३. ३ न्या. बि. परि. २ सू. ३. "Aho Shrut Gyanam"
SR No.009662
Book TitleSyadvada Ratnakar Part 1
Original Sutra AuthorVadidevsuri
AuthorMotilal Laghaji
PublisherMotilal Laghaji
Publication Year
Total Pages274
LanguageSanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy