SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ प्रमाणनयतत्त्वालोकालङ्कारः [परि. १ स. २ ततश्च कश्चित् क्वचित् संशेते नाध्यवस्यति विप्रतिपद्यते चेति । तदनुसारेण लक्षणवाक्ये लक्षणादीनां विधिरविरुद्धोऽभिधीयत इति । अत्राह धर्मोत्तरः। ' लक्ष्यलक्षणभावविधानवाक्ये लक्ष्यमनूद्य लक्षणमेव विधीयते । लक्ष्यं हि प्रसिद्ध धर्मोत्तरमतस्य सविस्तरं खण्डनम् ! भवति ततस्तदनुवाद्यम् । लक्षणं पुनरप्रसिद्धमा मिति तद्विधेयम् । अज्ञातज्ञापनं विधिरित्यभिधानात् । सिद्धे तु लक्ष्यलक्षणभावे लक्षणमन्य लक्ष्यमेव विधीयते' इति । तदेतदबन्धुरम् । लक्ष्यवल्लक्षणस्यापि प्रसिद्धिर्नहि न सिद्धति कुतस्तस्याप्यज्ञातत्वनिबन्धनो विधिरप्रतिबद्धः सिद्धयेत् । १० विवक्षितलक्ष्यास्पदत्वेनाज्ञानाल्लक्षणस्य तत्त्वेन विधिरप्रतिबद्धः सिद्ध एवेति चेत् तर्हि लक्ष्यस्यापि विवक्षितलक्षणलक्षितत्वेनाज्ञानात् तत्त्वेन किं न विधिः साधीयान् । अथ सविशेषणे हि विधिनिषेधौ विशेषणमुपसङ्कामत' इति न्यायात् विवक्षितलक्षणलक्षितत्वेन लक्ष्यस्य विधिरित्यभिधीयमाने लक्षणस्यैवासौ पर्यवस्यति । वहिमत्त्वेन १५ पर्वतः साध्य इति अभिधीयमाने वह्निवत् । हंत तर्हि विवक्षित लक्ष्यास्पदत्वेन लक्षणस्य विधिरित्यभिधीयमाने लक्ष्यस्यैवासौ पर्यवस्यतीत्यपि किन्न पश्यसि । न चायं सार्वत्रिको न्यायः । रक्तं पर्ट वयेत्यादौ कदाचिद्विशेषणविशेष्ययोरुभयोरपि विधेयत्वप्रसिद्धेः । अदग्धदहनन्यायेन यावदप्राप्तं तावद्विघीयत इति हि तद्विदः । अथ यथा कांश्चित्प्रति संशयानध्यवसायनिरासाय तत्परान् तीर्थान्तरीयान् प्रति विप्रतिपत्तिपर्यायविपर्ययप्रतिक्षेपायापि तद्विलक्षणं कक्षीकरणीयम् । न वैतेषां १. सविशेषणौ' इति प. पुस्तके पाठः। २ सविशेषणे हि विधिनिषेधौ विशेष्ये बाधे सति विशेषणमुपसङ्कामतः । इति न्यायस्वरूपम् । तदर्थश्च-यत्र सविशेषणे विशेध्ये विशेष्यमात्रे विधेर्निषेधस्य वा आधस्तत्र तौ विधिनिषेधौ विशेषणमुपसङ्कामतः । ३ अभियावददग्धं तावद्दहति । ४ ' तथा ' इति प. पुस्तके पाठः । "Aho Shrut Gyanam"
SR No.009662
Book TitleSyadvada Ratnakar Part 1
Original Sutra AuthorVadidevsuri
AuthorMotilal Laghaji
PublisherMotilal Laghaji
Publication Year
Total Pages274
LanguageSanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy