SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ परि. १ सू. २] स्याद्वादरत्नाकरसहितः एव स्वात्मनः प्रस्तावकोऽस्तु किं प्रयोजनवाक्योपन्यासप्रयासेन । एतेन शास्त्रप्रतिज्ञाख्यापनफल: संक्षेपतः शास्त्रशरीरख्यापनफलश्च तदादौ वाक्योपन्यास इत्येवमादयोऽसत्कल्पना न्यायोपदर्शनाननुकूलतया निरुपयोगित्वेन निर्वर्णितोत्तराः प्रतिपत्तव्याः । वामालेण प्रकृतार्थनिश्चयायोगात् । नहि तत्र शब्दगडुमात्रव्यतिरेकेण कश्चन न्यायो विपश्चितामविपरीतप्रतिपत्तौ प्रतीयते । तस्मात् प्रेक्षावतां प्रतिपत्तिनिमित्तं वाङ्मात्रव्यतिरेकेण न्याय एव दर्शनीयो येन निरोरेक प्रवर्तेरन् । एवं च शास्त्रस्येष्टफलप्रतीतिकृतये कर्तव्यमादौ वचो। नो वेति स्थितमत्र जैनसमये सन्न्यायसामर्थ्यतः ।। एकान्तस्तु न सिद्धिपद्धतिमितस्तत्साधनार्थं ततो। व्यर्थं दर्शनपक्षपाततरलाः क्लिश्यन्ति तीर्थ्याः परे ॥१५॥१॥ प्रमाणनयतत्त्वव्यवस्थापनार्थमिति प्रत्यपादि । तत्र प्रमाणं तावलक्षयितुमाह स्वपरव्यवसायिज्ञानं प्रमाणमिति ॥२॥ १५ प्रमाणमिति लक्ष्यम् । स्वपरव्यवसायिज्ञानमिति लक्षणम् । लक्षणं च परस्परं व्यतिरेके सति विजातीयेभ्यो व्यवच्छिन्नं लक्ष्यतेऽवधार्यते येन तदुच्यते असाधारणो धर्म इति यावत् । यथा तपनीयतदाभासयोर्वर्णविशेषः । तत्र प्रतिपाद्यानुसारेण यथायोगं लक्ष्यं वा लक्षणं वा द्वयमपि वा विधीयते । परप्रतिपत्तये हि वाक्यं कीर्तयन्ति कृतिनः। परे चापरिमितप्रकारा दुर्वारप्रसरो ह्यसौ मोहमहाराजः प्रतिविषयमनेकाभिर्भङ्गीभिरुज्जम्भते । १ व्याख्यापन' इति प. पुस्तके पाठः । २ नहि प्रतिज्ञामात्रेण कार्यसिद्धिरित्युक्तः । ३ 'न्यायपथ' इति भ. पुस्तके पाठः । ४ निःशंकम् । ५ ' लक्ष्य' इत्यधिक प. पुस्तके । "Aho Shrut Gyanam"
SR No.009662
Book TitleSyadvada Ratnakar Part 1
Original Sutra AuthorVadidevsuri
AuthorMotilal Laghaji
PublisherMotilal Laghaji
Publication Year
Total Pages274
LanguageSanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy