________________
प्रमाणनयतत्त्वालोकालङ्कारः [परि. १सू.१ परिसमाप्तितः प्रयोजनमनुगमयिष्यन् शास्त्रं श्रावयति । ततः समधिगते तेन प्रयोजने तदुपक्षिप्तस्य साधनस्यासिद्धिरिति । नायमप्याशयः साधीयान् । नहि शास्त्रश्रवणतः प्रयोजने समधिगन्तव्ये शास्त्रादौ
तद्वाक्यमुपादीयमानं कञ्चनार्थं पुष्णाति । तत्रावगन्तव्यप्रयोजन.५ स्यानुपयोगादिति यत्किञ्चिदेतत् । नन्वसिद्धतोद्भावनप्रकारोऽनेन
न्यायेन प्रलयमेव गत इति चेत् । मैवम् । न खलु वयमसिद्धतोद्भावनपरं न्यायमेव प्रतिक्षिपामोऽपि तु प्रमाणशक्तिसम्पत्सम्पर्कविरहात् वाङ्मात्रमेवेदमिति वदामः । नहि न्यायानुसारितामात्मसात् कुर्वन् कश्चिदनुपप्लवमानसो न्यायमेव प्रतिक्षिपति । वाङ्मानं तु विवक्षितार्थप्रकाशनानुपयोगितया प्रतिक्षिपदपि । तन्नेदमसिद्धतोद्भावनार्थमपि प्रयोजनवाक्यं शाक्यैरादावुपन्यसनीयम् । आगमप्रमाणरूपं प्रेक्षावतां प्रवृत्तये तदंवश्यं विधेयमित्यन्ये । तदपि
न्यायशून्यम् । यतोऽयमागमः पौरुषेयो वाऽपौरुषे- यो वा । प्रथमकल्पनायां कुतोऽस्य प्रामाण्यनिश्चय
__इत्यभिधेयम् । स्वत एवेति चेत् । मैवम् । प्रामाण्यनिश्चर्यकान्तस्य प्रामाण्यगोचरसंशयानुत्पत्तिप्रसङ्गादिदोषोपहतत्वेन प्रतिक्षेप्स्यमानत्वात् । परत एवेत्यप्यसत्यम् । परतः प्रामाण्यनिश्चयैकान्तस्यानवस्थादिदोषदूषितत्वेन निराकरिष्यमाणत्वात् । अपौरुषेयत्वमप्यस्य पुरस्तात् पराकरिष्यमाणत्वेन भणितुमननुगुणम् । केचिदाहुः 'शास्त्रस्य प्रस्तावकमुपक्रमवाक्यं तदन्तरेण तत्प्रारम्भानुपपत्तेः' इति । तदप्पसुन्दरम् । अनवस्थानुषङ्गात् । यथैव हि प्रस्तावकं वाक्यमन्तरेण न शास्त्रमवतरति तथा तदपि वाक्यान्तराद्विना नेति । प्रस्तावकत्वं चाभिसन्धाय प्रयोजनवाक्येऽवश्योपन्यसितव्ये शास्त्रस्य गुणनिमित्तपरिमाणादयः कथं नोपन्यस्येरन् । ततो व्याख्यातृवशादवतरन् ग्रन्थ
आगमप्रामाण्यविचारः।
१ नोपन्यसेरन्' इति प. भ. पुस्तकयोः पाठः ।
"Aho Shrut Gyanam"