SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ परि. १ सू. १] स्याद्वादरत्नाकरसहितः एवेति । तदपि मामूढभाषितम् । वाक्यस्य प्रमाणत्वेनानवस्थिततया प्रयोजनविशेषसद्भावप्रकाशनसामर्थ्यविरहतस्तदसिद्धिमुद्भावयितुमशक्तत्वात् । नापि सप्रयोजनत्वेतरयोःपरस्परपरिहारस्थितयोः कुतश्चित्प्रमाणादेकभावाप्रतीतावितराभावप्रतिपत्तिः । येन वाक्यमात्रस्योपक्षेपेण परकीयाया व्यापकानुपलब्धेरसिद्धिः स्यात् । नापि कुतश्चित्प्रयोजनविशेषं ५ स्वयं प्रतिपन्नवता परस्य तत्प्रकाशनोपायमनुपदर्शयता शास्त्रारम्भनिषेधकस्य हेतोरसिद्धिरुद्भावयितुं शक्यते । वाक्यस्याप्रमाणस्य हेतुप्रतिपक्षभूतार्थप्रत्युपस्थापनासमर्थस्योपक्षेपमात्रेणासिद्धेरयोगात् । नापि निष्प्रमाणिका तत्प्रतिपक्षप्रतिपत्तिः । अतिप्रसङ्गात् । नाप्यन्तःकरणसमाधानमात्रवशवर्तिविकल्पोपरचितस्य प्रयोजनविशेषस्य परमार्थतोऽ- १० सतोऽनेन वाक्येनोपदर्शनेऽपि तदसिद्धतोद्भावनं न्याय्यम् । परिकल्पितव्यापकोपलम्भलक्षणसाधनस्थ स्वप्रत्यनीकतथाविधव्यापकानुपलम्भव्यापारविमर्दानुपपत्तेः । उपपत्तौ वा कथमर्थादर्थगतिरिति सन्धा वन्ध्यास्तनन्धयपराक्रमवर्णनावन्न वन्ध्या भवेत् । कथमेतत् यद्यपीद वाक्यमप्रमाणत्वाद्विपरीतपदार्थोपस्थापनामुखेनासिद्धतां नोद्भावयति । १५ तथापि शास्त्रस्य निष्प्रयोजनत्वं सन्देहदोलामधिरोहयत्येव । सन्दिग्धनियोजनत्वस्य च शास्त्रस्यैकान्तेन निश्चितं प्रयोजनाभावं प्रेक्षावदारम्भप्रतिषेधहेतुं प्रयुंजानोऽनेन वाक्येन प्रतिचिक्षिप्सितो न पुनः प्रयोजनविशेषविषयनिश्चय एवोत्पिपादयिषितः । नहि प्रतिपक्षाक्षेपेणैव साधनधर्माणामसिद्धिरपि तु स्वग्राहिविज्ञानविकलतया धर्मिणि सन्दिग्धत्व- २० मप्यसिद्धत्वमेव । तस्मात् सन्दिग्धासिद्धतोद्भावनाय वाक्यप्रयोग इति । तदपि न साधिमानमाधत्ते । यथाहि सप्रयोजनत्वे सन्देहोत्पादने वाक्यस्यानुपयोगित्वं शास्त्रमात्रादपि भावात्, तथा निष्प्रयोजनत्वेऽपि । अथायमाशयः । समुपन्यस्ते परेण व्यापकानुपलम्भे प्रयोजनवाक्येनासिद्धतां प्रतिपाद्य कथमासद्धिः साधनस्येति प्रत्यवतिष्ठमानं परं शास्त्र- २५ १ 'विरहितस्य' इति प. पुस्तके पाठः। २ सन्धा-प्रतिज्ञा । ३ खण्डयितुमिष्टः । "Aho Shrut Gyanam"
SR No.009662
Book TitleSyadvada Ratnakar Part 1
Original Sutra AuthorVadidevsuri
AuthorMotilal Laghaji
PublisherMotilal Laghaji
Publication Year
Total Pages274
LanguageSanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy