________________
प्रमाणनयतत्त्वालोकालङ्कारः [परि. १ स. १ यन्ति मनीषिणः । संक्षिप्तेप्वपि केषुचिच्छास्त्रेषु तदुपन्यासस्य तदितरेप्वपि तदनुपन्यासस्य दर्शनात् ।
आदिवावये कृते तस्मादर्थसंशयतोऽपि वा ॥ अकृते वृत्तिरन्याप्तादर्थसंशयतोऽपि वा ॥११॥ व्यासात् समासतो वापि शास्त्रे कर्तुः समीहिते ॥ तदेवमादिवाक्यस्यानेकान्तोऽसौ व्यवस्थितः ॥ १२॥ ये त्वेकान्तवादिनः सौगतादयस्तेषां न कथञ्चिदप्यादिवाक्यं सौगतादीनामादि- प्रकाशयितुमवकल्पते । तस्य प्रामाण्यमस्वीकरणवाक्यस्यासा- कुर्वतां समर्थयितुमसमर्थानां वा वैयर्थ्यात् ।
मञ्जस्यम् ।
अत्राहुरेकान्तकृताभिमानाः परे प्रयोक्तव्यमवश्यमादौ ॥ शास्त्रस्य वाक्यं न विना ह्यनेन प्रेक्षावतां सिध्यति वृत्तिरत्र॥१३॥
तथाहि प्रयोजनप्रतिपत्तिनान्तरीयकत्वात् प्रेक्षावतां प्रवृत्तेरनभिहितप्रयोजनशास्त्रस्य तैः काकदन्तपरीक्षादिवदनादरणीयत्वमेव भवेदतः
प्रयोजनप्रदर्शनेन तेषां प्रवर्तनाय शास्त्रस्यादौ वाक्यं प्रयोजनप्रकाशन१५ परमुपन्यसनीयमेव । अभ्यधायि च ।
" अनिर्दिष्टफलं सर्वं न प्रेक्षापूर्वकारिभिः । शास्त्रमाद्रियते तेन वाच्यमग्रे प्रयोजनम् ॥१॥ शास्त्रस्य हि फले ज्ञाते तत्प्राप्त्याशावशीकृताः।
प्रेक्षावन्त प्रवर्त्तन्ते तेन वाच्यं प्रयोजनम् ॥२॥ इति अत्रोच्यते । तावदेव लभते प्रतिष्ठितं प्रोक्तमतदखिलं कुतीर्थिकैः ॥ यावदेव न जिनेन्द्रसूनवो व्यञ्जयन्ति दृढयुक्तिडम्बरम् ॥ १४ ॥
तथाहि प्रेक्षापूर्वकारिणां प्रवर्तनाय किल शास्त्रादौ प्रयोजनप्रतिपादकं वाक्यमुपादीयते । तेच प्रमाणप्रदीपप्रयोतितन्यायमार्गप्रसर्पण२५ प्रवृत्तान्वर्थप्रेक्षापूर्वकारिव्यपदेशाः प्रमाणत एव प्रवर्तन्ते । न चादिवाक्यप्रभवं ज्ञानमध्यक्षं बौद्वैस्तावदभिधानीयम् अस्पष्टत्वात् । नापि
१ उपेन्द्रवज्रा । २ रथोद्धता ३ प्रत्यक्षम् ।।
"Aho Shrut Gyanam"