________________
परि. १ सु. १] स्याद्वादरत्नाकरसहितः । मानमिति । यश्च तं प्रकृतमेव प्रत्यपद्यत तं प्रति प्रवचनमनुमानं चेति नियमाद्विरचनीयमादिवाक्यम् । यस्तु प्रेक्षापूर्वकारी प्रतिपन्नाsप्रतिनियताप्तस्तं प्रत्येतत्करणाकरणयोर्यदृच्छैव विराजते । शास्त्रकृतैवोपन्बस्ते हि तस्मिन्नमूदृशप्रयोजनपात्रं शास्त्रमेतदित्येवं रूपमातान्तरोपदेशं प्रेक्षावान् नापेक्षतेऽपेक्षते चानुपन्यस्ते तम् इत्युभयथापि प्रेक्षावतः प्रवृत्तिरनिवृत्तैव । अथेतरथाऽप्यत्र पक्षे प्रेक्षावतः प्रवृत्तिसिद्धेरकरणैकान्त एव रमणीय इति चेत् । कः खलु विशेषोऽशेषशेमुषीशालिना सम्भावितः शास्त्रकृदाप्तोपज्ञादुपदेशात् तदितराप्तप्रणीतोपदेशे ग्रन्थलाधवमिति चेत् किमर्थमेतद्विशिष्यत इति प्रकाश्यम् । शिष्यस्य प्रवर्तमानस्य स्वल्पप्रयासार्थमिति चेत् । तहस्तराप्तप्रणीतमुपदेशमनु- १०. सरतः किं न तावान् प्रयासः स्यात् । तदुभयव्यापिशिष्यप्रयाससाम्ये निर्निबन्धनः शास्त्रकृदादिवाक्योपदेशप्राप्तिबन्धः निबंधः किञ्च शास्त्रकृतैव कृतमेतत् सर्वथैवाप्रतिपन्नाप्तान् प्रतिपन्नप्रकृतमात्राप्तांश्चापि प्रेक्षावतः प्रवर्तयति । येऽपि चाप्रेक्षापूर्वकारिणोऽर्थसंशयात्कृप्यादौ प्रवर्तन्ते तेषामपीह शास्त्रे तस्मादेव प्रवर्तमानानामपाम्य हठाद्प्रेक्षाराक्षसी घटयन्ति १५ प्रेक्षाप्रणयिनीमिति के न पश्यसि विशेषलाभम् । तस्माद् अवस्थितमिदं यदत्र पक्षे यहच्छैवेति । ये च प्रत्यक्षमेव प्रमाणमाचक्षते तान्प्रति न प्रयोक्तव्यमेवेति । तदयं संक्षेपः । यद्यादिवाक्यमुपकल्प्यते तदा कस्यचित्तस्मादेव प्रमाणादितरस्य पुनरर्थसंशयात् प्रवृत्तिः । यदा तु नोपकल्प्यते तदाप्तान्तरोपदेशरूपात् प्रमाणादर्थसंशयाद्वेति सर्वत्र २०. सर्वस्यापि प्रवृत्तिसिद्धरादिवाक्योपकल्पनेऽनेकान्तो व्यवतिष्ठते । सविस्तरशास्त्रेप्वादिवाक्यस्याभिधानमनभिधानमन्यत्रेत्येवमादिवाक्यानेकान्तं ये केचिदास्थिषत न तेऽनवद्यया विद्ययानन्दयन्ति सहृदयान् । आदिवाक्यभात्रोपन्यासे हि न समासस्य व्युदासं विस्तरस्य वाऽवतरणं गण
१ प्रतिपन्नो' इलि प. पुस्तके पाठः। २ उपज्ञोपक्रम तदाद्याचिख्यासायाम् ' इति पा. स. २-४-२१ । ३. प्रत्यक्षमेवं' इति भ. पुस्तके पाठः । ४ समासः संक्षेपः । व्युदासो निराकरणम् । आप्तमूलकादित्यर्थः ।
"Aho Shrut Gyanam"