________________
प्रमाणनयतत्त्वालोकालङ्कारः
[परि. १ सू. १
१० च
प्रवक्तगुणान् प्रतिपाद्यान् प्रति स्वत एवाभ्यस्तकारणगुणान् प्रति प्रत्यक्षादिवत् । अनभ्यस्ततद्गुणांस्तु कांश्चित्तान, प्रति सुनिश्चितासम्भवबाधकत्वरूपाद्नुमानात् । अपरांस्तु प्रतिपन्नातान्तरोपदेशादपि तथा स्वयं स्वार्थानुमानेन निश्चितमर्थं प्रकृत्य शास्त्रार्थिनां प्रतिपादयितुं शास्त्रकृतां युक्तमेतदिति स्वार्थानुमानमूलं परार्थानुमानमिदमामनन्ति । तात्पर्य खल्वस्य प्रवर्तितव्यमत्र शास्त्रे प्रमाणनयतत्त्वप्रतिपित्सुभिस्तदूव्यवस्थापनार्थत्वादिति प्रतीयते । न चास्य हेतोरसिद्धिः । उत्तरग्रन्थेन प्रसाधयिष्यमाणत्वात् । अथ यथा ग्रन्थकर्तुः प्रवर्ततेऽनुमानं तथा तदर्थिनः श्रोतुरपि तत्प्रवर्तिष्यत इत्यलमेतदुपन्यासेनेति चेत् । अस्थाने स्पर्द्धाबन्धः । शास्त्रकर्ता ह्यन्तःकरणेन सकलमपि . निवर्तयिष्यमाणशास्त्रार्थं यथाकथञ्चित्समधिगतं सम्यक्परामृशन् प्रेक्षावतः प्रवर्त्तयितुमादिवाक्यं प्रयुक्त इति न किञ्चिदचतुरस्त्रम् । तदितरस्तु कथामिव प्रस्तुतशास्त्रार्थमवगच्छेदिति चिन्त्यम् । प्रवर्त्तनेन
चेत् कथं न तर्हि परस्पराश्रयः । नहि प्रयोजनमजानानः प्रवर्तते । १५ न चाप्रवृत्तः प्रयोजनं जानातीति । समस्तपरार्थानुमानमुद्रोपद्रवकारिणी
चेयमाशङ्का । शवयत एव हि वक्तुमेवं धूमानुमानेऽपि । यत्प्रतिपादकवत् प्रतिपाद्यस्यापि स्वत एवोत्पत्स्यते प्रकृतमनुमानमिति किमेतदुपन्यासेनेति । अथ भवेत् कश्चिद्धिपर्ययसंशयानध्यवसायवशीकृतात्मा
तं प्रति तत्प्रतीकारायोपयुज्यत एवैतत्प्रयोग इति चेत् । इतरत्रापि २० किं न तथा समर्थयसे । अथादिवाक्यकृतावेकान्तोऽनेकान्तो वेति अनेकान्त इत्याचक्ष्महे ।
. तथाहि ये प्रेक्षापूर्वकारिणः सर्वथैवाप्रतिपन्नाप्ताः आदिकरणवाक्येऽनेकान्तवादस्य स्थापनम् । प्रतिपन्नप्रकृतमात्राप्ता वा भवेयुर्नामी प्रमाण
प्रदर्शनमन्तरेण प्रवर्त्तयितुं शक्या इत्यमून् प्रति २५९ प्रयोक्तव्यमेव यथासम्भवमागमानुमानोभयस्वभावमादिवाक्यम् । तथा
हि यः प्रेक्षापूर्वकारी कुतश्चिद्वयामोहात् कञ्चनाप्तं प्रतिपेदे तं प्रत्यनु
"Aho Shrut Gyanam"