SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ परि. १ सू. १] स्याद्वादरत्नाकरसहितः परार्थानुमानम् । साध्यसाधनयोर्व्याप्तिप्रतिपत्तौ तर्कप्रमाणस्य तैरनङ्गीकारात् । प्रत्यक्षस्यानुमानस्य वा तत्रासमर्थत्वेन साधयिष्यमाणत्वात् । अप्रमाणादेव विकल्पज्ञानात् तयोर्व्याप्तिप्रतिपत्तिरिति त्वसमीचीनम् । प्रत्यक्षानुमानप्रमाणत्वसमर्थनस्य वैयर्थ्यापत्तरप्रमाणादेव प्रत्यक्षानुमेयार्थ प्रतिपत्तिप्रसङ्गात् । स्यान्मतम् । उपलब्धप्रयोजनवाक्यानां प्रयोजनार्थिनां वाक्योपदर्शितप्रयोजनविषयभावाभावपरामर्शपरः संशयः समाविर्भवति । आविर्भूतप्रयोजनविषयसंशयानां च कदाचित्तत्प्राप्त्या वशीकृतान्तरात्मनामर्थसंशयस्य प्रवर्तकत्वात् । संशयितसस्यसम्पत्त्यादिफला न : बलादीनां कृष्यादाविव प्रवर्तमानानां श्रोतृणां विमृश्यकारिणां विस्मृश्यकारित्वाविरोध इति तेषां संशयोत्पादनार्थः प्रयोजन- १० वाक्योपन्यास इति । अत्रोच्यते । वाक्योपन्यासः शास्त्रप्रयोजनविषयसंशयोत्पिपादयिषया । संशयोऽपि च निश्चयविरुद्धोऽनुत्पन्ने च निश्चये तत्राप्रतिबद्धवृत्तिकतया वाक्योपन्यासात् प्रागप्यसौ प्रादुर्भवन् केन निवार्यते येन तदर्थं वाक्यमुपन्यस्येत । स्यादेतत् अश्रुतप्रयोजनवाक्यानां प्रयोजनसामान्ये तत्सत्त्वेतराभ्यां संशयो जायते किमिदं १५ चिकित्साशास्त्रवत् सप्रयोजनमुत काकदन्तपरीक्षादिवन्निष्प्रयोजनमिति। तस्माच्च संशयाद्नुपन्यस्तेऽपि प्रयोजनवाक्ये प्रयोजनसामान्यार्थिनः प्रवर्त्तन्ताम् । प्रयोजनविशेषे तु कथमश्रुतप्रयोजनवाक्यानां संशयोत्पत्तिः प्रायेण च प्रयोजनविशेषविषयस्यैव संशयस्य प्रवृत्तिकारणत्वात् तदु. स्पादनाय वाक्यं प्रयोक्तव्यमेवेति । तदसाम्प्रतम् । कुतश्चिच्छास्त्रानु- २० भूतपूर्वप्रयोजनविशेषं श्रोतारं प्रति तावद्वाक्यस्यानुपयोगात् । स हि किञ्चिच्छास्त्रमुपलभ्य प्रागनुभूतप्रयोजनविशेषेण शास्त्रेणास्य वर्णपदवाक्यकृतं साधर्म्यमवधार्य किमिदमपि सफलं निष्फलं वा । सफलमपि किमनेनैवान्येन वा फलेन फलवादिति संदिहानो विनाऽपि प्रयोजनवाक्येन प्रवर्तत एव । अननुभूतपूर्वप्रयोजनविशेषोऽपि श्रोता २५ शास्त्रमिदमनेन प्रयोजनेन तद्वदित्युपन्यस्तेऽपि वाक्ये प्रयोजनविशेषमे "Aho Shrut Gyanam"
SR No.009662
Book TitleSyadvada Ratnakar Part 1
Original Sutra AuthorVadidevsuri
AuthorMotilal Laghaji
PublisherMotilal Laghaji
Publication Year
Total Pages274
LanguageSanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy