________________
प्रमाणनयतत्त्वालोकालङ्कारः [परि. १ स. १ दभ्यर्हित एव । ननु कथमभ्यर्हि तत्वानभ्यर्हि तत्वाभ्यां सकलादेशित्वविकलादेशित्वे व्याप्ते सिद्धे यतः प्रमाणनययोस्ते सिद्धयेते इति चेत् । प्रकृष्टापकृष्टविशुद्धिलक्षणत्वादभ्यर्हितत्वानहितत्वयोस्तद्व्यापकत्वमिति ब्रूमः । नहि प्रकृष्टां विशुद्धिमन्तरेण प्रमाणमनेकधर्म५ धर्मिस्वभावं सकलमर्थमादिशति । नयस्यापि सकलादेशित्वप्रसंगात् ।
नापि विशुद्धथपकर्षमन्तरेण नयो धर्ममात्रं धम्मिमात्रं वा। विकलमादिशति । प्रमाणस्यापि विकलादोशत्वप्रसङ्गात् । ननु नयोऽभ्यर्हितः प्रमाणात् तद्विषयांशे विप्रतिपत्तौ सम्प्रत्ययहेतुत्वादिति चेत् । न ।
कस्यचित् प्रमातुः प्रमाणादेवाशेषवस्तुनिर्णयात् तद्विषयांशे विप्रति१० पत्तरसम्भवात् नयात् सम्प्रत्ययासिद्धेः कस्यचित् प्रतिपत्तुस्तत्सम्भवे
नयात् सम्प्रत्ययसिद्धिरिति चेत् । सकलवस्तुनि विप्रतिपत्तौ प्रमाणात् किन्न सम्प्रत्ययसिद्धिः । सोऽयं सकलवस्तुविप्रतिपत्तिनिराकरणसमर्थात् प्रमाणाद्वस्त्वेकदेशे विप्रतिपत्तिनिरसनसमर्थं सन्नयमभ्यार्हितं
ब्रुवाणो न न्यायवादी। १५ इदं च वाक्यं मुल्यवृत्त्या प्रयोजनमेव प्रतिपादयितुमुपन्यस्तम् ।
तस्यैव प्राधान्येन प्रवृत्यङ्गत्वात् । अभिधेय
" सम्बन्धौ तु सामर्थ्याद् गमयति । तथा हि प्रमाणनयतत्त्वमभिधेयं प्रमाणनयतत्त्वेत्यवयवेन लक्षितम् इत्यभिधेय
विधुरत्वारेका निराकृता । अमुष्य चाभिधेयस्य सुखानुष्ठेयत्वादशक्यानु२० ष्ठानत्वशङ्का दूरत एव निरस्ता। प्रयोजनं द्वेधा कर्तुः श्रोतुश्च ।
पुनर्द्विविधम् अनन्तरं सान्तरञ्च । तत्र कर्तुरनन्तरं प्रयोजनं प्रमाणनयतत्त्वव्यवस्थापनं प्रमाणेत्माद्यवयवेन ण्यन्तेन साक्षनिर्दिष्टम् । श्रोतुस्तु व्यवस्थेत्युपसर्गधातुसमुदायेनैव तदन्तर्गतं प्रत्याय्यते । सान्तरप्रयोजनं तु द्वेधा प्रधानमप्रधानञ्च तत्र अप्रधानं कर्तुस्सत्त्वानुग्रहख्यात्यादि
१ अभिधावृत्त्या न तु लक्षणया । २ आरेका-शङ्का । ३ णिचप्रत्ययान्तेन ।
"Aho Shrut Gyanam"