________________
परि. १ सू. १] स्याद्वादरत्नाकरसहितः आचार्यस्योपक्रमः शिष्यनिष्ठ इति । यथा घटशब्दःपृथुबुध्नोदराकारार्थः । तदर्थस्तु घट उदकाहरणार्थः । तदुच्चारयिता तु तेन शब्देन तदर्थव्यवस्थापनार्थ इति । स इहापि न्यायः । शास्त्रं प्रमाणनयतत्त्वार्थम् । प्रमाणनयतत्त्वं हेयोपादेयोपेक्षणीयेष्वर्थेषु हानोपादानोपेक्षार्थम् । आचार्यस्तु तत्कर्ता तेन शास्त्रेण तदर्थव्यवस्थापनार्थ इति । एवं ५ व्यवस्थापनार्थत्वमुपक्रमस्याचार्यव्यापारस्य यथोचित न तथा शास्त्रस्य । तस्य करणभावेन तथोपयोगादिति । एवं प्रमाणनयतत्त्वव्यवस्थापनायेदं प्रमाणनयतत्त्वव्यवस्थापनार्थमित्येवं तत्पुरुषोऽपि यदि क्रियते । तत्रापि क्रियाविशेषणतैव व्याख्यया । इदं स्वसंवेदनप्रत्यक्षेणान्तस्तत्त्वरूपतया प्रतिभासमानं प्रमाणनयतत्त्वालोकाख्यं शास्त्रम् । उप- १० क्रम्यते बहिः शब्दरूपतया प्रारभ्यते प्रणीयत इति यावत् ।
ननु प्रमाणं च नयश्चेति द्वन्द्वे नयनशब्दस्य पूर्व निपातः प्राप्नो
माणनोतिद्वन्यात त्यल्पाच्तरत्वान्न पुनःप्रमाणशब्दस्य बह्वचत्वादिति प्रमाणशब्दस्य पूर्वनिपात-चेत् । तन्न । अभ्यर्हितत्वेन बह्वचोऽपि प्रमाण. विचारः ।
शब्दस्याल्पान्तरात् नयशब्दात् पूर्वं निपातने १५ कृते दोषाभावात् । नह्यल्पाच्तरादभ्यर्हितं पूर्व निपतीति कस्यचिदप्रसिद्धम् । लक्षणहेत्वोरित्यत्र हेतुशब्दादल्पाच्तरादपि लक्षणपदस्य बह्वचोऽभ्यर्हितस्य पूर्व प्रयोगदर्शनात् । कथं पुनः प्रमाणशब्दो नयशब्दादभ्यर्हित इति चेत् । उच्यते । प्रमाणस्य सकलादेशित्वेन विकलादेशिनो नयादभ्यर्हितत्वात् । तद्वाचकः प्रमाणशब्दोऽपि नयशब्दा- १०
१ स्थापनार्थम् 'शति भ. म. पुस्तकयोः पाठः । २ 'व्यापारात्' इति भ. म. पुस्तकयोः पाठः। ३ 'तत्रोपयोगात्' इति प. पुस्तके पाठः । ४ 'अल्पाच्तर' इति पा. सू. २-२-३४. ! ५ ' अभ्यर्हितं च ' इति का. वार्तिकम् २-२-३४. ६ ' लक्षणहेत्वोः क्रियायाः' इति पा.सू. ३-२-१२६. । ७ सकलादेशः प्रमाणवाक्यं, तल्लक्षणं चेदम् -प्रमाणप्रतिपन्नानन्तधर्मात्मकवस्तुनः कालादिभिरभेदत्तिप्राधान्यादभेदोपचाराद्वा योगपद्येन प्रतिपादकं वचः सकलादेशः तद्विपरीतस्तु विकलादेशो नयवाक्यमित्यर्थः ।
"Aho Shrut Gyanam"