________________
स्य वि
प्रमाणनयतत्त्वालोकालङ्कारः [ परि. १ सू. १ दिवाक्यवत् प्रज्ञाभिमानिनामवज्ञास्पदत्वात् । अथ तैः सहितम् । तथापि यत्तत्राभिधेयं तद्यद्यशक्यानुष्ठानम् । तदा सर्वव्याधिहरविषधराधीशशिरोरत्नादानोपदेशवत्कथमिव कस्यचिदपि तत्रोपादेयबुद्धिः प्रादु:प्यात् । प्रयोजनमप्यनभिमतं चेत् जननीपाणिग्रहणोपदेशवत् तत्रातितरामनादरश्चतुराणां स्यादित्यनेकशङ्काशङ्कुसमुद्धरणार्थमिदमादिवाक्यमाहप्रमाणनयतत्त्वव्यवस्थापनार्थमिदमुपक्रम्यत इति।१॥ प्रकर्षेण सन्देहाद्यपनयनस्वरूपेण मीयते परिच्छिद्यते वस्तु येन
__ तत्प्रमाणम् । नीयते गम्यते श्रुतप्रमाणपरिच्छिप्रमाणनयतत्त्वेति सूत्र
र नार्थकदेशोऽनेनेति नयः प्रमाणं च नयश्चेति
प्रमाणनयौ तयोस्तत्त्वमसाधारणं स्वरूपम् । तस्य विशेषेणावस्थापनं व्यवस्थापनम् । तदेवार्थः प्रयोजनं यत्र तदर्थम् । ननु द्वयमिह प्रकृतम् । इदमर्थः शास्त्रम् । उपक्रम्यत इति च क्रिया ।
तत्र किं प्रमाणनयतत्त्वव्यवस्थापनार्थमित्यत्र शास्त्रं संबध्यते यदुत १५ प्रमाणनयतत्त्वव्यवस्थापनार्थमिदं शास्त्रमुपकम्यते। अथ क्रियाविशेषण
मेतत् प्रमाणनयतत्त्वव्यवस्थापनार्थमित्यत्र उपक्रम्यते योऽस्योपक्रम : स प्रमाणनयतत्त्वव्यवस्थापनार्थ इति । भवति चामूदृशि प्रोक्ते संदेहः । यथा शोभनं पचतीत्युक्ते किं पाक्यं तण्डुलादि शोभनमथ
पाक इति । उच्यते । क्रियाविशेषणमेवैतत् । व्यावस्थापनं हि शास्त्र२० कारव्यापारो न तु शास्त्रव्यापारः । आचार्यो हि मुख्यतया व्यवस्थापयति
न शास्त्रम् । तत्तूपचारात् भिक्षा वासयतीति यथा । तस्माच्छास्त्रस्य यो व्यापारः स्वाभिधेयप्रतिपादनं नाम तत् सूचितमेव प्रमाणनयतत्त्वेत्यवयवेन । व्यवस्थापनार्थमित्यनेन तु प्रयोजनमुक्तम् । अतो यस्म तत्प्रयोजनमाचार्यस्य तदीय एव व्यापारस्तेन विशिष्यते । व्यवस्थापनार्थ
१ उपचारो लक्षणा । यथा यतेनगरनिवासे भिक्षालाभो हेतुः ।
"Aho Shrut Gyanam"