________________
परि. १ सू. १] स्याद्वादरत्नाकरसहितः तेषां सहकारित्वाविशेषात् । अवितथमेतत् केवलमाप्तस्मरणनिर्मितान्येव तानि शास्त्रसिद्धौ सहकारीणीत्यवधारणं प्रतिषिध्यते । सत्पात्रदानादिना निमित्तान्तरेणापि निर्मितानां तेषां तस्यां सहकारित्वसम्भवात् । कदाचित्तदभावेऽपि पूर्वोपार्जितधर्मविशेषेभ्य एव शास्त्रनिष्पत्तेश्च । परापरगुरूपदेशस्तु न तद्वदनियतः शास्त्रकरणे तस्यावश्यमपेक्षणीय- ५ त्वादितरथा तदनुपपत्तेः । ततः परापरगुरुप्रवाहस्य शास्त्रसिद्धिनिबन्धनत्वात् तदारम्भसमये तत्स्मृतिरुपपन्नैवेति ॥ कथं पुनः प्रमाणनयतत्त्वालोकः शास्त्रं येन तदारम्भे परापरगुरु
का प्रवाहः स्मर्यत इति चेत् । उच्यते । तल्लक्षणयोप्रमाणनयतत्त्वालोकस्यगात । तथाहि वर्णात्मकं पदम् । पदात्मकं सूत्रम् । १० शास्त्रत्वसिद्धिः।
- सूत्रसमूहः प्रकरणम् । प्रकरणसमूहो यथासमय परिच्छेदो वा पादो वा आहिकं वा अध्यायो वा तत्समूहश्च शास्त्रमिति शास्त्रलक्षणम् । तच्चाष्टपरिच्छेदीरूपस्य प्रमाणनयतत्त्वालोकस्यास्तीति सोऽपि शास्त्रम् । यद्वा विश्वव्यापकाप्रमाणनयतत्त्वशासनाच्छास्त्रत्वमस्य मनीषिभिर्मन्तव्यम् । प्रसिद्धे चास्य शास्त्रत्वे तद्विवरणस्यापि शास्त्रत्वं १५ सिद्धमवबोद्धव्यम् । तदर्थत्वात् । एवं च सिद्धमिदम् यः सूत्रार्थपवित्रशास्त्रपटली निर्वर्तनप्रौढता
हेतुत्वात् परमोपकारकतया विश्वत्रये विश्रुतः । प्रारम्भेऽत्र कृतज्ञता प्रकटयन्नात्मन्यसौ सूत्रकृत्
तामेतामकरोत् परापरगुरुस्तोमस्य तस्य स्मृतिम् ॥ १० ॥ २० ननु शक्यानुष्ठानाभिधेयेनाभिमतप्रयोजनेन सम्बन्धेन च सहिता
न्येव शास्त्राणि प्रेक्षावद्भिराद्रियन्ते नान्यथा । प्रमाणनयतत्त्वेति सूत्रमवतारयितुं शास्त्रेऽनुब- प्रेक्षावत्त्वक्षतेः । तत्किमिदं प्रस्तूयमानं शास्त्रन्धचतुष्टयस्यावश्यकत्व- मभिधेयप्रयोजनसंबन्धैः सहितं रहितं वा प्रदर्शनम्।
" स्यात् । रहितं चेत् तर्हि तदारम्भार्थमभियोगो २५ निरुपयोगः स्यात् । अहिलेप्रलापवायसदशनस्वरूपोपवर्णनदर्शदाडिमा
१ विषयः, संबन्धः, प्रयोजनं, अधिकारीत्यनुबन्धचतुष्टयम् । २ अहिलस्य पिशाचाविष्टस्य प्रलापाः। ३'काकस्य कति वा दन्ता मेषस्याण्डं कियत्पलम् ।गर्दभे कति रोमाणीत्येषा मुर्खविचारणा' इति वचनानुसारं वायसदन्तस्वरूपोपवर्णनं निरर्थकम् ।४ 'दशदाडिमानि षडपूपाः' इत्यादिकं निरर्थकवाक्योदाहरणं पातालभाष्ये।
"Aho Shrut Gyanam"