SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ प्रमाणनयतत्त्वालाकालङ्कारः [परि. १ स. १ समर्थनादेव शास्त्रकर्तुर्नास्तिकतापरिहारघटनात् । तदन्तरेण शास्त्रादौ परापरगुरुप्रबन्धानुध्यानवचने सत्यपि नास्तिकतापरिहारानुपपत्तेः । शिष्टाचारपरिपालनसाधनत्वात् तत्स्मरणं तत्सिद्धिनिबन्धनमित्यन्ये । नैतदपि साधीयः । स्वाध्यायादेरपि सकलशिष्टाचारपरिपालनसाधनत्वे५ नावधारणात् । ततः प्रस्तुतशास्त्रोत्पादनिमित्तचिरन्तनशास्त्रस्योत्पत्ति कारणत्वात् तदर्थनिर्णयसाधनत्वाच्च परापरगुरुप्रवाहस्तत्सिद्धिनिबन्धनमित्येतदेव सहृदयसंवेद्यमिति । ननु यथावद्विज्ञानमेवं कर्तुस्तत्सिद्धिनिबन्धनमिति चेत् । मैवम् । परापराप्तनिर्मितशास्त्रं तस्य गुरूपदेशपरतन्त्रत्वात् । श्रुतज्ञानावरण१० प्रकृतशास्त्रे हेतुभूतमिति क्षयोपशमात् गुरूपदेशविरहेऽपि श्रुतज्ञानस्योत्पाशङ्कासमाधानाभ्यां व्यव स्थापनम । दान्न तत्तत्परतन्त्रमिति चेत् । तदप्यवद्यम् । दुव्यभावश्रुतस्याप्तोपदेशापाये कस्याप्यभावात् । तथाहि द्रव्यश्रुतं द्वादशावचनात्मकम् । तदर्थज्ञानं तु भावश्रुतम् । तद्वितयमपि गण धराणां भगवदहद्वचनातिशयप्रसादात् स्वमतिश्रुतज्ञानोवरणवीर्यान्त१५ रायक्षयोपशमातिशयाञ्चोपजायमानं कथमाप्तायत्तं न भवेत् । तथा च परापराप्तप्रवाह निबन्धन एव परापरशास्त्रप्रवाहस्तन्निबन्धनं च यथावद्विज्ञानं शास्त्रकर्तुरभिमतशास्त्रकरणलक्षणफलसिद्धेरप्युपाय इति तत्कामेनाप्तः समस्तोऽपि तदारम्भे स्मरणीय एव । यथोक्तम् । " अभिमतफलसिद्धेरभ्युपायः सुबोधः ।। प्रभवति स च शास्त्रात् तस्य चोत्पत्तिरातात् ।। झंत भवति स पूज्यस्तत्प्रसादप्रबुद्धे न हि कृतमुपकारं साधवो विस्मरन्ति ॥१॥" अथ यथा गुरूपदेशः शास्त्रसिद्धेर्निबन्धनं तथाप्तस्मरणनिर्मितधर्मविशेषमङ्गलनास्तिकतापरिहारशिष्टाचारपरिपालनान्यपि तसिद्धौ १ अस्मन्मुद्रापितस्याद्वादमजयाँ पृ. १५६ टि. ३. २ अस्मन्मुद्रापिततस्वार्थाधिगमसूत्रेषु अ. ८ सू. ७, १४. अ. १ सु. ५. "Aho Shrut Gyanam"
SR No.009662
Book TitleSyadvada Ratnakar Part 1
Original Sutra AuthorVadidevsuri
AuthorMotilal Laghaji
PublisherMotilal Laghaji
Publication Year
Total Pages274
LanguageSanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy