________________
१७८
प्रमाणनयतत्त्वालोकालङ्कारः [परि. १ सू. १६ भवद्भिरभिप्रेतमिति । आकाराणां वा चित्रैकज्ञानतादात्म्यादनेकत्वाभावः स्यात् । अथ नीलाद्याकारवत्तज्ज्ञानमप्यनेकमिप्यते । तदापि किं कथञ्चित्सर्वथा वा । यदि सर्वथा तदा तज्ज्ञानानां परस्परमत्यन्तभेदाच्चित्रप्रतिपत्तिः स्वभेऽपि न प्राप्नोति । सन्तानान्तरज्ञानवत् । ५ कथञ्चिद्भेदे तु ज्ञानवद्वहिरर्थस्यापि स्वाकारैर्विचित्रैः कथंचित्तादात्म्यमनुभवतः प्रत्यक्षादिप्रमाणेन प्रतीयमानस्य चित्रस्वभावतेष्यतां किं कदाग्रहेण । यतः--
पर्यनुयोगपराकृतिमार्गचित्रमतौ तब हन्त मतो यः ।
. एष सखे सकलोऽपि समानश्चित्रबहिर्भववस्तुनि भाति ॥१६७।। १० यदप्युक्तं ज्ञानात्मकाः सुखादयो ज्ञानाभिन्नहेतुजत्वादित्यादि ।
तत्र हेतुरनैकान्तिकः । यतः कुम्भादिभङ्गजः शब्दः कपालखण्डादिना तुल्यहेतुजो न च तद्रूपः । किं च सर्वथा ज्ञानाभिन्नहेतुजत्वं तेषामभिप्रेतमायुप्मतः कथञ्चिद्वा । प्रथमपक्षे हेतुरसिद्धः । सुखादीनां
विशिष्टादृष्टविपाकस्रग्वनितादिनिमित्तजन्यत्वात्, तस्य चादृष्टविशेष१५ विलयेन्द्रियादिकारणकलापप्रभवत्वात् । विभिन्नस्वभावत्वाच्चामीषां
सर्वथा ज्ञानाभिन्नहेतुजत्वमनुपपन्नम् । तथाहि येषां विभिन्नस्वभावत्वं न तेषां सर्वथाप्यभिन्नजत्वं यथा जलानलादीनां विमिन्नस्वभावत्वं च ज्ञानसुखादीनामिति । न चात्र हेतोरसिद्धिः। सुखादेराह्लादनाद्याकारत्वाज्ज्ञानस्य च प्रमेयानुभवस्वभावत्वात् । उक्तं च “ सुखमाादना२० कारं विज्ञानं मेयबोधनम्" इति । अथ कथञ्चिद्विज्ञानाभिन्नहेतुजवं विवक्षितम् । तद्रूपालोकादिना विज्ञानसहभाविना क्षणान्तरेणानैकान्तिकम् । यथैव बहीरूपालोकादेः सकाशाद्विज्ञानस्योत्पत्तिस्तथा रूपालोकादिक्षणान्तरस्यापि न च तस्य विज्ञानादभेदः । अपि
चोपादानकारणापेक्षया सुखादीनां विज्ञानाभिन्नहेतुजत्वमुच्यते सहका२५ रिकारणापेक्षया वा । तत्राये पक्षे किमेषामभिन्नमुपादानकारणमात्मद्रव्यं
ज्ञानक्षणो वा । न तावदात्मद्रव्यमनङ्गीकारात् अङ्गीकारे वा कुम्भादिभि
"Aho Shrut Gyanam"