________________
परि. १ सू. १६ ]
स्याद्वादरत्नाकरसहितः
विवेच्यमानस्यासत्त्वम् । तदप्यसत्यम् । यतोऽवयवबुद्धिर्नावयविनः सत्त्वं विधातुं प्रतिषेद्धुं वा शक्नोति । तदविषयत्वात्तस्याः । अथावयवेषूपलभ्यमानेष्ववयवी नोपलभ्यते ततोऽसौ नास्त्येवेति । एवं तर्हि स्वज्ञाने समुपलभ्यमाने पुरुषान्तरज्ञानं नोपलभ्यतेऽतस्तस्याप्यभावः स्यात् । पुरुषान्तरेण स्वज्ञानस्योपलम्भान्नाभाव इति चेत् । एवं तर्ह्यवयविनोऽप्युप- ५ लम्भान्तरेणोपलम्भभावान्नाभावः । प्रतिभाति हि लौकिकानां तन्तुभ्यः कथञ्चिद्व्यतिरिक्तस्तत्समुदायात्मकः पट इति । भ्रान्तिरेषा तेषामिति चेत् । नैवम् । सर्वलोकव्यवहाराविसंवादिनी खल्वेषा प्रतीतिर्बहुभिस्तन्तुभिरयमेकः कथंचिदात्मभूतः पटो निष्पादित इति कथं भ्रान्तिः स्यादिति न शक्यविवेचनत्वादवयविन एकत्वम पोतुमशक्यविवेचन- १० त्वात्तु चित्रज्ञानस्याभ्युपगन्तुं युक्तम् । किञ्चैते नीलाद्याकाराश्चित्रज्ञाने सम्बद्धाः सन्तस्तद्व्यपदेशहेतवोऽसम्बद्धा वा । न तावदसम्बद्धाः I अतिप्रसङ्गात् । अथ सम्बद्धाः, किं तादात्म्येन तदुत्पत्त्या वा । न तावत्तदुत्पत्त्या, समसमयवर्त्तिनां सीमन्तिनीनयनयुग्मवत् तदसम्भवात् । नापि तादात्म्येन, ज्ञानस्यानेकाकाराव्यतिरिच्यमानरूपत्वेनैकरूपत्वाभावप्रसङ्गात् । अनेकाकाराणां चैकस्माज्ज्ञानस्वरूपादव्यतिरेकादनेकत्वानुपपत्तिः । यदप्युक्तमर्थधर्मत्वानुपपत्तेरिति, तदपि प्रत्यक्षबाधितम् । चित्रपटादिबाह्यार्थधर्मतया हावाधिताध्यक्षप्रत्यये चित्राकारः प्रतिभासते इति न तस्य ज्ञानधर्मता युक्ता । अतिप्रसक्तेः । यदप्यवादि नीलादिकमवयविरूपमेकं वस्तु स्यात्तद्विपरीतं वेत्यादि । तदपि प्रलापमात्रम् । सर्वथैकत्वानेकत्वयोरस्वीकारात् । न चानयोः कथञ्चित्स्वीकारे विरोधो वाच्यः । चित्रज्ञानेऽप्येवं विरोधप्रसङ्गात् । तथाहि तदेकं वा सदनेकाकारं तद्विपरीतं वा । न तावदाद्यविकल्पो युक्तः । एकस्य परस्परविरुद्धाकारैस्तादात्म्यायोगात्तावद्भिः प्रकारैस्तस्यापि भेदप्रसङ्गात् । प्रयोगो यदेकं न तस्य परस्परविरुद्धाकारैः सह तादात्म्यं यथोत्पन्नस्य २५ क्षणस्योत्पत्त्यनुत्पत्तिभ्यां सत्त्वविनाशाभ्यां वा । एकं च चित्रज्ञानं
१२
" Aho Shrut Gyanam"
१७७
१५
ܪ