________________
प्रमाणनयतत्वालोकालङ्कारः [परि. १ स. १६ विवेचयन्नर्थे पततीति तदविवेचनमेवेति चेत् । तयेकत्वपरिणतद्रव्याकारानेवं विवेचयन्नानाद्रव्याकारेषु पततीति तदविवेचनमस्तु । ततो यथैव ज्ञानाकाराणामशक्यविवेचनत्वं तथैव पुद्गलादिद्रव्याकाराणामपीति ज्ञानमिव बाघमपि सिद्धयत्कथं प्रतिषेध्यं येन चित्राद्वैतं सिद्धयेत् । अथ बाह्यस्य विवेच्यमानस्यानुपपद्यमानत्वाज्ज्ञानस्यैव चित्ररूपता सिद्धयति नार्थस्येति चेत् । मैवम् । एवं हि ज्ञानस्यैवाभावः प्रसज्यते । यतः स्वसंविदितचित्रज्ञानवादिमते ज्ञानमेवोपलम्भयोग्यत्वाद्विवेचयितुं शक्यते । बाह्यं पुनरत्यन्तानुपलभ्यस्वभावं कथं
विवेच्यताम् । न खल्वनालोक्य लोकः सुरलोकविकसत्पारिजातमञ्जरी१० मञ्जुकिञ्जल्कपुञ्जपिञ्जरतायाः स्वरूपं विवेचयितुं शक्नोति । ज्ञाना
कारस्य बाह्यत्वेनामिमतस्य दृश्यत्वाद्विवेचनोपपत्तिरिति चेत् । किं तद्विवेचनात्तस्यैवाभावोऽन्यस्य वा । न तावत्तस्यैव । ज्ञानस्य निराकारत्वप्रसङ्गात् । ततश्च चित्रैकरूपव्याघातः । नाप्यन्यस्याभावः ।
अन्यविवेचने ह्यन्यस्याभावसिद्धौ त्रैलोक्याभावः स्यात् । किञ्च बाह्य१५ स्यार्थस्य विवेचनं ज्ञानविषयत्वमुच्यते यस्य च ज्ञानविषयत्वं तस्य
कुतोऽसत्त्वम् । सन्तानान्तरस्याप्यभावप्रसक्तेः । भ्रान्तितो बाह्यार्थस्य ज्ञानविषयत्वमिति चेत् । प्रान्तं तर्हि विवेचनं ततोऽप्रमाणत्वान्नासत्त्वसाधकम् । भ्रान्तिरप्यर्थसम्बन्धतः प्रमेति चेत् । तदसत् । बाह्यार्थेन सह भ्रान्तेः सम्बन्धाभावात् । सम्बन्धे वा न तस्यासत्त्वमिति । अपि च नीलादेरवयविनोऽवयवबुद्धया विवेच्यमानस्यासत्त्वमुच्यतेऽवयविबुद्धया वा । न तावद्वयविबुद्धया । तस्यास्तत्सत्त्वगृहीतिरूपत्वान्नीलादिबुद्धिवत् । यदि पुनस्तत्सत्त्वबुद्धया तदसत्त्वं व्यवस्थाप्यते । तदा तदसत्त्वबुद्धया तत्सत्त्वं व्यवस्थाप्यत इत्यपि स्यात्ततः साध्वी
व्यवस्थितिः । अथ तदसत्त्वबुद्धया विवेच्यमानस्य तस्यासत्त्वमभि२५ धीयते । भवत्वेवं यत्र तदसत्त्वबुद्धिरभ्रान्तास्ति । न च सर्वत्र पटाद्यसत्त्व
बुद्धिरभ्रान्ता भवति ततो न सर्वत्रासत्त्वसिद्धिः । अथावयवबुद्धया
२०
"Aho Shrut Gyanam"