SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ परि. १ सू. १६ स्याद्वादरत्नाकरसहितः तदभावेऽपि तदनुरागप्रतीतेरित्यादि । तदपि प्रलापमात्रम् । स्वप्नज्ञानेऽपि बाह्यार्थविषयत्वस्य पूर्वमेव विपर्ययविचारावसरे प्रसाधितत्वात् प्रसाधयिष्यमाणत्वाच्चानन्तरमेव माध्यमिकमतविचारप्रस्तावे .। यदप्युक्तं, अशक्यविवेचनतस्तस्यास्तदविरोधादित्यादि। तदप्यनुपपन्नम् । बाह्यस्यापि द्रव्यस्य चित्तपर्यायात्मकस्याशक्यविवेचनत्वाविशेषाच्चित्रैकरूपतापत्तेः। ५ यथैव हि ज्ञानस्याकारास्ततो विवेचयितुमशक्यास्तथा पुद्गलादेरपि रूपादयः । नानारत्नराशौ बाह्ये पद्मरागमणिरयं चन्द्रकान्तमणिश्चायमिति विवेचनं प्रतीतमेवेति चेत् तर्हि नीलाद्याकारैकज्ञानेऽपि नीलाकारोऽयं पीताकारश्चायमिति विवेचनं किं न प्रतीतम् । चित्रप्रतिभासकाले तन्न प्रतीयन्त एव पश्चात्तु नीलाद्याभासानि ज्ञानान्तराण्यविद्योदया- १० द्विवेकेन प्रतीयन्त इति चेत् । तर्हि मणिराशिप्रतिभासकाले पद्मरागादिविवेचनं न प्रतीयत एव पश्चात्तु तत्प्रतीतिरविद्योदयादिति शक्यं वक्तुम् मणिराशेर्देशभेदेन विभजनं विवेचनमिति चेत् । एतदन्यत्रापि समानम् । एकज्ञानाकारेषु तदभाव इति चेत् । मैवम् । तदभावस्यासिद्धत्वात् । चित्रज्ञानेऽपि नीलाद्याकाराणामन्योन्यदेशपरिहारेण स्थितत्वात् । एकदेशत्वे पुनरेकाकार एव समस्ताकाराणामनुप्रवेशप्रसङ्गतस्तद्वैलक्षण्याभावात्तच्चित्रता विरुद्धयेत । तथाहि यदेकदेशं न तस्याकारवैलक्षण्यं यथैकनीलाकारस्य । एकदेशाश्च ज्ञाने नीलाद्याकारा इति । तथा यत्राकारावैलक्षण्यं न तत्र चित्ररूपता यथैकनीलज्ञाने । आकारावैलक्षण्यं चैकदेशतयाभिमतानां नीलाद्या- २० काराणामिति । सिद्धयतु वैकज्ञानाकारेषु देशभेदेन विभजनाभावः । किन्त्वेकमण्याकारेप्वप्यसौ समस्त्येव । मणेरेकस्य खण्डने तदाकारेषु देशभेदेन विभजनमस्तीति चेत् । ज्ञानस्यास्य वुद्धथा खण्डने तदस्त्येव । पराण्येव ज्ञानानि तानि तत्खण्डने तथेति चेत् । पराण्येव मणिखण्डद्रव्याणि मणिखण्डने तानीति समानम् ! नन्वेवं चित्रज्ञानं ।। १५ १. तत्प्रतीयत एव' इति प. पुस्तके पाठः । "Aho Shrut Gyanam"
SR No.009662
Book TitleSyadvada Ratnakar Part 1
Original Sutra AuthorVadidevsuri
AuthorMotilal Laghaji
PublisherMotilal Laghaji
Publication Year
Total Pages274
LanguageSanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy