SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ प्रमाणनयतत्त्वालोकालङ्कारः [परि. १ सू. १६ प्येकरूपतानुपपत्तिविरुद्धधर्माध्यासात् जलानलवत् । नीलभागस्य तदितरभागात्मकत्वाद्वा तदग्रहे तस्याप्यग्रहणमेव स्यात् पीताद्यग्रहे तत्स्वरूपवत् । तद्विपरीतत्वपक्षे तु नीलादेः सिद्धः स्वयमेव चित्रतापायो विभिन्नाश्रयवृत्तिनीलपीतादिवत् । तन्नार्थधर्मता । किन्तु ज्ञान५ धर्मता । स्वकारणकलापाद्विज्ञानमुपजायमानमनेकाकारखचितमेवोप जायतेऽनुभूयते च । ततस्तथाभूत ज्ञानमेवैकं तत्त्वमिति चित्राद्वैतसिद्धिः। सुखादेस्तु ज्ञानाभिन्नहेतुजत्वेनापि ज्ञानात्मकत्वोपपत्तिः । तथाहि ज्ञानात्मकाः सुखादयो ज्ञानाभिन्नहेतुजत्वाज्ज्ञानान्तरवत् । तदुक्तम् । "तदतदूपिणो भावास्तदतद्रूपहेतुजाः । तत्सुखादिकं विज्ञानं १० विज्ञानाभिन्नहेतुजम् ॥ १॥” इति । एवं च एकं चित्रं बहिरिह यतो वस्तुभूतं न किञ्चि 'न्मानारूढं कथमपि घटाकोटिमायाति तस्मात् । चित्रामेकां धियभनुभवेनैव संवेद्यमानां मुक्त्वा मिथ्याभिमतिमधुना किं न भोः स्वीकुरुध्ये ॥१६५॥ चित्राकारामेकां बुद्धिं बाह्यार्थमन्तरेणापि ॥ इत्थं ये प्रतिपन्नाः सम्प्रति तेषामियं शिक्षा ।। १६६ ॥ तथाहि यत्तावदुक्तम् तब्यवस्थापकं प्रमाणं किं प्रमेयात्पूर्वकालभावि स्यादित्यादि । तदशिक्षितोत्प्रेक्षितम् । प्रकाशकस्य पूर्वोत्तर.. सहभावनियमाभावात् । तथाहि कचित् पूर्व विद्यमानपदार्थः पश्चाद्धा२० विनः प्रकाश्यस्य प्रकाशको भवति । यथा कृत्तिकोदयः शकटो दयस्य । क्वचिच्च पूर्वं सतः पश्चाद्भवन्प्रकाशको दृष्टो, यथा शकटोदयः कृत्तिकोदयस्य । क्वचित्पुनः प्रकाशकः समकालमवलोक्यते यथा कृतकत्वादिरनित्यत्वादेः । अतः प्रमाणं पूर्वोत्तरसहभावनियमानपेक्षं वस्तु प्रकाशति प्रकाशकत्वात् । ततश्च यस्य हि सद्भावे प्रमाणं न विद्यते २५ इत्याद्यनुमाने प्रमाणाभावरूपो हेतुरसिद्धः । यच्चान्यदुक्तं स्वग्नदशायां "Aho Shrut Gyanam"
SR No.009662
Book TitleSyadvada Ratnakar Part 1
Original Sutra AuthorVadidevsuri
AuthorMotilal Laghaji
PublisherMotilal Laghaji
Publication Year
Total Pages274
LanguageSanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy