SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ परि. १ सू. १६] स्याद्वादरत्नाकरसहितः १७३ दर्पप्रोद्भुरगन्धसिन्धुरघटासङ्घट्टसण्टङ्कितं तुङ्ग तुङ्गतुरङ्गभङ्गुरगुरुग्रीवाविलासोज्ज्वलम् । दिव्यस्यन्दनवृन्दसुन्दरगुरुप्रेसत्पदातिव्रजं साम्राज्यं कुरुतेऽत्र कश्चन किल स्वप्ने प्रमोदाञ्चितः ॥१६॥ न च तद्दशाभाविनि करितुरगादिप्रत्ययेऽनुरञ्जको बहिरर्थोऽस्ति । स्वप्ने- ५ तरप्रत्ययानामविशेषप्रसङ्गात् । अतो बुद्धिरेवार्थनिरपेक्षा स्वसामग्रीतो विचित्राकारोछरिता यथा स्वमदशायामुपजायते तथा जाग्रदशायामपि नन्वेवमप्येकस्या बुद्धेविचित्राकारतया प्रतिभासमानायाः कथमेकत्वं युक्तमित्यप्यचोद्यम् । अशक्यविवेचनतस्तस्यास्तदविरोधात् । तदुक्तं " नीलादिश्चित्रविज्ञाने ज्ञानोपाधिरनन्यभाछ । अशक्यदर्शनस्तं हि १०. पतत्यर्थे विवेचयन् ॥१॥" अत्र देवेन्द्रव्याख्या । चित्रज्ञाने हि यो नीलादिः प्रत्यवभासते ज्ञानोपाधिः । ज्ञानविशेषणः अनुभवस्वात्मभूत इति यावत् । स एवैकोऽनन्यभाक् तज्ज्ञानस्वभावत्वादन्यमर्थं ज्ञानवदेव न भजते । तादृशश्च सन्नसौ तच्चित्रदर्शनप्रतिभासी तदन्यपीतादिप्रतिभासविवेकेन न केवलः शक्यते द्रष्टुम्, तस्मिन् प्रतिभासमाने १५ सर्वेषामेव तज्ज्ञानतया तदन्येषामपि नियोगतः प्रतिभासनात् । तस्माद्यदैवैकं नीलादिकमाकारं तदन्येभ्यः पीतादिभ्योऽयं नील इति ज्ञानान्तरेण विवेचयति प्रमाता तदैव तथा विवेचयन्नसौ न तज्ज्ञानमामृशत्यतद्रूपत्वात् तस्य । किं तीर्थे पतति । अर्थ एव तज्ज्ञानं प्रवृत्तं भवतीत्यर्थः । तस्मादेकस्मिन्नप्याकारे प्रतिभासमाने सर्वमाभाति २० न वा किञ्चिदपीत्यशक्यो विवेकतो दर्शने नीलादिप्रतिभास इति । ननु नीलादिर्बहिश्चित्ररूपतया प्रतीयते तस्याः कुतो ज्ञानधर्मतेति चेत् । अर्थधर्मत्वानुपपत्तेरिति ब्रूमः । तथाहि नीलादिकमवयविरूपमेक वस्तु स्यात्तद्विपरीत वा । प्रथमपक्षे नीलभागे गृह्यमाणे तदितरभागानामग्रहणं न स्यात् । तेषां ततो भेदप्रसङ्गात् । तथा चावयविनोऽ- २५ १ 'त्वङ्गत्' इति प. पुस्तके पाठः । "Aho Shrut Gyanam"
SR No.009662
Book TitleSyadvada Ratnakar Part 1
Original Sutra AuthorVadidevsuri
AuthorMotilal Laghaji
PublisherMotilal Laghaji
Publication Year
Total Pages274
LanguageSanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy