________________
१७२
प्रमाणनयतत्त्वालोकालङ्कारः [परि. १ स. १६ प्रकटितनिजमूर्तिर्बाह्यभावः सितादि
नूप इव निजराज्यं तन्त्रयित्वात्मकार्यम् ।। १६२ ॥ चित्रप्रतिभासामप्येका बुद्धिं विनाऽपि बाधेन ।
इह मन्यन्ते केचित् कुवासनातः सुगतशिष्याः॥१६३॥ तथाहि । ते एवमाहुः । ज्ञानमेवेदं नीलाद्यनेकाकाराकान्तं चित्रमेचित्राकारैका बुद्धिरेव नतु
___कमाभासते न पुनस्तदतिरिक्तमूर्तिीलादिश्चित्रो बायोऽर्थः कश्चित्तत्साधक-बाह्यार्थः । तत्सद्भावे प्रमाणाभावात् । यस्य हि प्रमाणाभावादिति बौद्ध सद्भाचे प्रमाणं न विद्यते तन्नास्ति यथा तुरङ्गकदेशिनो मतस्योपपादनपूर्वक खण्डनम् । शृङ्गं नास्ति च नीलादिचित्रबाह्यार्थसद्भावे
किञ्चित्प्रमाणमिति । न च प्रमाणाभावरूपो हेतुरत्रासिद्धः । तथाहि तथ्यवस्थापकं प्रमाणं किं प्रमेयात्पूर्वकालभावि स्यादुतस्विदुत्तरकालभावि समकालभावि वा । प्रथमपक्षे कथमस्य प्रमेयव्यवस्थापकता । तमन्तरेणैवोत्पद्यमानत्वात् व्योमकुसुमज्ञानवत् । द्वितीयपक्षे तु प्रमाणात्पूर्वकालवृत्तित्वं नीलादेः प्रमेयस्य कुतश्चित्प्रतिपन्नं न वा । यदि न प्रतिपन्नम् । कथं सद्यवहारविषयः कूर्मरोमवत् । अथ प्रतिपन्नम् । तत्किं स्वतः परतो वा। यदि स्वतः । कथमस्य ज्ञानाद्भेदः । तस्यैव स्वतोऽवभासलक्षणत्वात् । अथ परतः । तन्न । प्रमाणाव्यतिरिक्तस्य प्रमेयव्यवस्थाहेतोः परस्यासम्भवात् । अथ प्रमाणमेव प्रमेयस्य पूर्वकालवृत्तित्वं प्रकाशयति । तन्न । तस्य स्वयमसतः प्रमेयकाले तत्प्रकाशकत्वायोगात् । समकालत्वे तु प्रमाणप्रमेययोः सव्येतरगोविषाणवत् ग्राह्यग्राहकभावाभावः । न च प्रमाणे नीलाद्याकारानुरागप्रतीत्यन्यथानुपपत्त्या तदनुरञ्जको बहिश्चित्रोऽर्थः समस्तीत्यभिधातव्यम् । स्वप्नदशायां तदभावेऽपि तदनुरागप्रतीतेः । तथाहि--
१'सूत्रयित्वा' इति भ. पुस्तके पाठः।
"Aho Shrut Gyanam"