________________
परि. १ सू. १६] स्याद्वादरत्नाकरसहितः.
१७१ भूतेऽपि । स्वशिरश्छेदादौ स्वप्नदशायां ज्ञानमुत्पद्यत एवेत्युच्यते । तदप्यचारु । तत्रापि हि परशिरश्छेदो दृष्टः स्वशरीरं चानुभूतमतो दोषवशात्तु विवेकमपश्यन्नात्मशरीरे परशिरश्च्छेदमभिमन्यते । ततस्तत्राप्यनुभूतो बाह्यार्थ एव निमित्तम् । न ह्यननुभूतपरशिरश्छेदस्य तदपि संवेदनमुदयते । गन्धर्वनगरज्ञानेऽपि हि बहिर्वर्तिनः परमार्थतः सन्तः पाथोदा एवान्याकारतया कुतोऽपि भ्रान्तिनिबन्धनात् प्रतिभासन्ते । ततस्तदपि नानिमित्तम् बाह्यार्थापलापे च कथं प्रतिनियतदेशकालप्रमातृनिष्ठत्वेन रूपादिसंवेदनमुत्पद्येत । नियामकबाह्यार्थविरहेण सर्वत्र सर्वदा सर्वेषामनियमेनैव तत्प्रसक्तेः । कथं वा तत्रैव प्रदेशे तदवस्थस्य तस्यैव प्रमातुः कदाचिदुपाजयेत कदाचिन्न । कथं वा तिमिरान्तरित न्यनस्यैव प्रमातुः सन्ताने व्योन्नि १० कुन्तलकलापालोकनं न पुनरितरेषाम् । कथं वा समानेऽप्यर्थाभावे .. तैमिरिकोपलब्धैरेव कुन्तलैः कार्य न क्रियते न त्वन्यैः । कथं वा जातिनियमसिद्धिः । बोधमात्रे हि विश्वे नियमकारणाभावात्कुरङ्गोऽपि तुरङ्गस्तुरङ्गोऽपि कुरङ्गः कलभोऽपि शलभः शलभोऽपि कलमः करभोऽपि शरभः शरभोऽपि करभः स्यात् । बाह्यार्थाङ्गीकारे तु तन्नियमः सुघट १५ एव । येन हि तुरंङ्गत्वजात्युपभोग्यसुखदुःखादिकारणं कर्म कृतपूर्व स तत्परिणाममाहात्म्यात्तामेव जाति समाश्रयते । एवमपरेऽपि जन्मिनस्तकर्मसामर्थ्यात्तां तां जाति भजन्त इति । एवं सौगत युक्तयस्तव हठान्निर्मूलमुन्मूलिताः
प्रोक्ताः शैलसुनिश्चलाः पुनरमूर्वाह्याथसंसिद्धये । योगाचारमतप्रपञ्चचतुरोऽप्येतर्हि तस्मादहो
तूष्णीं तिष्ठ सुनिश्चितो ननु मया कश्चिद्भवान् वञ्चकः॥१६१॥
ततश्च--
अनुभववसुधायामत्र लब्धप्रतिष्ठः
प्रबलविविधयुक्तिप्रौढराज्ञीमनोज्ञः ।
"Aho Shrut Gyanam"