________________
१७०
१०
प्रमाणनयतत्त्वालोकालङ्कारः [परि. १ सू. १६ चेत् ग्राह्यत्वग्राहकत्वाभ्यां न ज्ञानस्य कर्तृकर्मभावस्तदा नास्य स्वरूपसंवेदितत्वमिति शक्रस्यापि दुरतिक्रमम् । सति च स्वसंविदितत्वे नियमात्स्वभाववैचित्र्येण कर्तृकर्मभाव इति । एतेन यदप्युच्यते गगनतलवालोकवदकर्मकत्वं स्वयमेवैतत् प्रकाशत इत्यादि । तदपि ५ प्रतिक्षिप्तम् । यतः प्रकाशमानं तद्बोधरूपं न चाबुद्धयमानस्य बोधरूपता सङ्गतेत्यात्मबोधोऽभ्युपेयस्तथा च सत्युक्तदोषानतिवृत्तिः । एवमपरोक्षस्वभावमित्याधुक्तावपि स्वप्रत्यक्षस्वभावमित्यादिशक्यार्थापत्तित उक्तदोषानतिवृत्तिरेव । तस्मात्यारमार्थिकमस्त्येव ज्ञाने ग्राह्यत्वं ग्राहकत्वं चेति । ___ यत्तु तथाप्रतीतिव्यवस्था पुनरनादिवासनासामर्थ्यादेवोपपद्यत प्रतीतिव्यवस्थानादिवा- इत्यवादि । तदपि नावदातम् । यतो वासनेयमसनासामदेिवापप- वस्तु वस्तु वा । यदवस्तु, तमुवस्तुनः सकाशाद्यत इति बौद्धमतस्य
' खण्डनम् । देव प्रतीतिरिति रिक्ता बाचोयुक्तिः । अथ वस्तु, एवमपि ज्ञानादव्यतिरिक्ता व्यतिरिक्ता वा सा स्यात् । आद्य१५ भेदेऽस्याः कथं यथोक्तप्रतीतिव्यवस्थानिबन्धनत्वमुपपद्यते । उपपत्तौ
वा न कदाचिदम्रान्तता बोधस्य स्यात् । ज्ञानाध्यतिरेके वा संज्ञाते भेदमानं भवेदर्थो वासनेति । एतेन धर्मोत्तरेण यदभिदधे, "तस्मादविद्याशक्तियुक्तं ज्ञानमसत्यरूपमादर्शयतीत्यविद्यावशात् प्रकाशत इत्युच्यत इत्यनवयम्" इति । तदप्यविद्याशक्तेर्ज्ञानाद्भेदाभेदपक्षाभ्यां विचार्यमाणाया अयुज्यमानत्वान्निरस्तमवसेयम् । यच्च ननु ज्ञानेन नीलाद्याकारस्येत्याद्याशंक्य वासनासामर्थ्यादेवेत्याद्यभिधदे। तदप्यसाधु । वासनाया निराकृतत्वात् । तस्मान्न बाह्याभावे ज्ञाने नीलाद्याकारोऽपि घटते । ननु स्वापादिदशायां बहिरर्थरूपनिमित्ताभावेऽपि नीलाद्याकार
भ्रान्तिरुल्लसतीत्युक्तम् । उक्तमेतत्किन्त्वयुक्तम्। तत्रापि परम्परया बाह्यार्थ२५ स्य व्यापारात् । न ह्यननुभूतेऽर्थे स्वामः कदाचित्किञ्चिदुरपद्यते । अथाननु
. १'च' इति. प. पुस्तके पाठः ।
"Aho Shrut Gyanam"