________________
१६९
परि. १ सू. १६] स्याद्वादरत्नाकरसहितः . नापरिकल्पितत्वात् । स्वहेतोरेव तस्य तथोत्पन्नत्वात् । तदेव बोधरूपं स्वसंवेदनमात्रे स्थितं यथोक्तेन ग्राह्यग्राहकद्वयेन रहितत्वादद्वयमित्युच्यते । तथा चोक्तम् ॥ " नीलपीतादि यज्ज्ञानादहिर्यदवभासते । तन्न सत्यमतो नास्ति विज्ञेयं तत्वतो बहिः ॥१॥ तदपेक्षया च संवित्तेर्मता या कर्तृरूपता । साप्यतत्त्वमतः संविदद्वयेति विभाव्यते ॥२॥” इति । एतदप्यसत् । नीलादावेकानेकविचाराक्षमत्वस्यासिद्धत्वात् । जात्यन्तरत्वेन तस्यैकानेकात्मकत्वात् । तथा च ज्ञानातिरिक्तग्राह्याभावोऽसिद्धः। अद्वयस्य स्वमेऽप्यननुभूयमानत्वाच्च । अनुभवे वा सर्वेषां तत्त्वदर्शनापत्त्या त्वन्नीतितोऽयत्नमुक्तिः स्यादित्युक्तम् । अथाभिधीयेताद्वयमेव बोधरूपं स्वसंवेदनसिद्धं, नैव सर्वेषां १० तत्त्वदर्शनप्रसक्तिः । यतो गृहीतेऽपि तस्मिन्निरंशत्वाद्वये बोधरूपे प्रान्तिबीजानुगमनान्न यथाबोधमद्वयावसायो जायते । ततो गृहीतमपि तदगृहीतकल्पमित्यननुभूतिर्न तत्त्वत इति । नैतदेवम् । अद्वयतत्त्वस्य कदाचिदननुभूयमानत्वात् । तथाध्यवसायस्य कदाचिदनुदयात् । तदाप्यद्वयकल्पनेऽतिप्रसक्तिः । नीलाद्याकारबोधादप्यन्यरूप १५ एव बोधोऽनुभूयते नीलादिभ्रान्तिबीजानुगमात्तु न यथाबोधमवसीयत इत्यपि वक्तुं शक्यत्वात् । किञ्चैवं परिकल्पिताद्वयरूपत्वेऽपि ज्ञानस्य तत्त्वतो ग्राह्यग्राहकत्वसिद्धिरेव । स्वात्मसंवेदनेन विज्ञानस्य कर्तकर्मभावोपपत्तेरन्यथा स्वात्मसंवेदनायोगात् । न ह्यात्मनात्मनो वेदनाभावे स्वसंवेदनं नाम । नन्वेवं स्वात्मनि क्रियाविरोधः । २० इति चेत् । तथैवानुभवात्को नाम विरोधः । विरोधे तु कथं कर्तृकर्मभावस्तस्य स्यात् । अथ · माभूदयमपसरत्वौषधं विनैव व्याधिरिति चेत् । फलोदये मनोरथस्ते यदि समुद्रान्तर्भग्ननिर्भरभृतयानपात्रस्वामीव मूलनाशेन न दुःस्थः स्याः, कर्तृकर्मभावाभावे हि विज्ञानस्याप्यननुभवादभाव एव च भवेत् । स्वहेतोरेव स्व- २५ संवेदनस्वभावं तदिति चेत्, किमनेनान्वयनिवेदनेन । सर्वथा
"Aho Shrut Gyanam"