________________
१६८
प्रमाणनयतत्त्वालोकालङ्कारः
[ परि. १ सु. १६
कर्त्तृभावस्य भेदाविनाभावित्वेन विदिक्रियावेदनकर्त्रीरभेदविरुद्धभेदस्य साधनात् । साधनविकलश्चात्राऽपि पक्षे दृष्टान्तः । वेदनाख्ये कर्तरि तत्स्वरूपमात्रस्य क्रियात्वासिद्धेः । अपि च यदि वेदनस्वभाव एव नीलादिरर्थः स्यात्तदेक एव कश्चित्तं प्रतीयात्तद्वेदनेकस्वभावत्वान्न पुनरपरे प्रमातारः । प्रतीयते चाऽयं बहुभिरेकः । सर्वेषां तदाभिमुख्येन युगपत्प्रवृत्तौ यस्त्वया दृष्टः स मयापीति प्रतिसन्धानात् । कथं ज्ञानरूपत्वे नीलादेः सप्रतिरूपता स्यात् । बहीरूपतया तस्याः प्रतिभासात् ज्ञानस्य चान्तारूपतया प्रतीतेः । यच्च भेदे नियमहेतोः सम्बन्धस्य व्यापकस्यानुपलब्ध्या भेदाद्विपक्षाद्यावर्त्तमानं वेद्यत्वमभेदेन १० व्याप्यत इत्युक्तम् । तदप्ययुक्तम् । सम्बन्धानुपलब्धेरसिद्धत्वात् । भेदेऽपि योग्यतारूपस्य नियमहेतोः सम्बन्धस्य दर्शितत्वात् । यच्चार्था - कारो ग्राह्यत्वेन प्रतीयत इत्याद्याशङ्कय परमार्थतो धीर्यग्राहकग्राह्यतया विमुक्तेत्यवाचि । तदप्यचारु । यतो यदि तत्त्वतो ज्ञाने ग्राह्यत्वं ग्राहकत्वं च नास्त्येवेति अभिधीयते । तर्हि किमपरमवशिष्टं यदस्य १५ स्वरूपं स्यात् । न हि ग्राह्यग्राहकाकारविविक्तमपरं रूपमवग्दर्शनैः साक्षात्क्रियते । साक्षात्करणे वा त्वन्नीत्या तत्त्वदर्शित्वं स्यात्तथा चायत्नमुक्ताः सकलशरीरिणः : स्युः । नाप्यनुमानात्तस्या निश्चयः । अद्वयरूपे तत्त्वे वस्तुभूतस्याभावभूतस्य वा कस्यचिल्लिङ्गस्यासिद्धेः । स्यादेतन्न ग्राहकशब्देनान्तर्बोधरूपं स्वसंविदितमुच्यते येन तस्याप्य२० भावः स्यात्किन्तु यदेतद्विज्ञानाद्वहिरिव नीलादि भासते तस्यैकानेकविचारक्षमत्वेनासत्त्वान्न ज्ञानव्यतिरिक्तं परमार्थतो ग्राह्यमस्ति । तद्भावाच्च तदपेक्षाप्रकल्पितं बोधरूपस्य यत्कर्त्तृरूपमस्य ग्राह्यस्यायं ग्राहक इति तदिह ग्राहकं रूपं तन्नास्तीत्युच्यते । कर्तृकर्मणोः परस्परापेक्षाप्रकल्पितत्वात् । अत एवोक्तम् । परस्परापेक्षया तयोर्व्य२५ वस्थानादिति । बोधरूपं तु स्वसंवेदनमात्रमस्त्येव । तस्य परानपेक्षत्वे
1
' सप्रतिघातिरूपता ' इति प. पुस्तके पाठः ।
"Aho Shrut Gyanam"