________________
परि. १. सू. १६] स्याद्वादरत्नाकरसहितः .
अन्तर्मुखाकारतयैव वुद्धिर्विभासमाना निखिलासुभाजाम् । नीलादिकं वस्तु बहिःप्रतिष्ठं प्रकाशयत्यस्तसमस्तबाधा !! १५८ ॥ अथापि मोहोदयतः स्फुरन्तं प्रत्यक्षबोधेऽपि बहिः पदार्थम् । न मन्यसे हन्त तदा कथं नु विज्ञप्तिरप्यत्र तव प्रसिद्धयेत् ॥ १५९ ॥ तदप्रसिद्धौ च तवापि तत्त्वं समागतं सम्प्रति शून्यमेव । तदप्यथ स्वीकुरुषे तदानीं तद्दषणं श्रोष्यसि मा त्वरिष्ठाः ॥ १६० ॥
तन्न प्रकाशमानत्वं हेतुः सङ्गतः । सुखादिकमिति दृष्टान्तोऽपि साध्यविकलः, सुखादेरेकान्तेन ज्ञानरूपत्वस्य प्रतिषेत्स्यमानत्वात् । तन्न प्रकाशतामुनापि माननीया मनीषिणाम् । . यत्तु यद्यने वेदनेनेत्यादि समावेदि । तत्र वेदनार्थयोर्भेदम्य प्रत्यक्षप्रति- १०
__ पन्नत्वात्प्रत्यक्षप्रबाधितत्वं प्रतिज्ञादोषः । तथा किं वेद्यत्वहेतोः खण्डनम् । यद्यत इति कर्मणि प्रयोगाद्वेदनकर्तृकविदिक्रियारूपं वेदनकर्मत्वं वेद्यत्वं हेतुरिष्यते । किं वा यवैद्यत इति यच्छब्दस्य वेदनक्रियया सामानाधिकरण्ये भावनिर्देशाद्विदिक्रियारूपवेदनस्वभावत्वम् । अत्र च विकल्पेऽयं प्रमाणार्थः । नीलादयो वेदनादभिन्नाः ।। वेदनकर्तृकवेदनक्रियारूपत्वाद्वेदनस्वरूपवदिति । आद्यपक्षे विरुद्धो हेतुः कर्तकर्मभावस्य भेदेनैव व्याप्तत्वात् । नन्वेवं त्वन्मतेऽपि वेदनस्यात्मानं वेदयमानस्य कथमेकस्यैव कर्तृत्वं कर्मत्वं च चतुरस्र स्यादिति चेत् । न तस्य सर्वथैक्यासिद्धेः । अन्यो हि वेदनस्य कशोऽन्यश्च कर्मांश इति । किं च यदि वेदनादर्थस्याभेदस्तदा २० वेदनमेव स्यान्नार्थस्तस्य तत्रैवानुप्रतिष्ठितत्वादिति कस्य कर्मत्वम् । तथा. च वेद्यत्वादित्यसिद्धो हेतुः । वेदनस्वरूपस्य च दृष्टान्तस्य साधन विकलत्वम् । वेदनादभिन्न तस्मिन् भेदव्याप्यस्य वेदनकर्मत्वस्य साधनस्य त्वन्मतेनासम्भवादिति । द्वितीयपक्षे तु प्रतिवाद्यसिद्धः । वेदनक्रियातः । पार्थक्येनार्थानां परैरभ्युपगमात् । विरुद्धश्चायम् । क्रिया- २५
"Aho Shrut Gyanam"