________________
प्रमाणनयतत्त्वालोकालङ्कारः [परि. १ सू. १६ तथा च तत्प्रतिपादनार्थं प्रकृतहेतूपन्यासो व्यर्थः । अथ सन्तानान्तरं स्वस्य प्रतिभासयोग स्वयमेव प्रतिपद्यते । जडस्यापि प्रतिभासयोग तत्प्रत्येतीति कि नेप्यते । प्रतीतेरुभयत्रापि समानत्वात् । अथाप्रतिपन्नेऽपि जड़े विचारात्तदयोगः । ननु तेनाप्यस्याविषयीकरणे प्रतिभासा५ योगप्रतिपत्तिविरोधः। विचारस्तत्र न प्रवर्तते तत एवं च कथं तदयोगप्रतिपत्तिः स्यादिति । विषयीकरणे वा विचारवत्प्रत्यक्षादिनाप्यस्य विषयीकरणात् प्रतिभासयोगोऽसिद्धः । न च प्रतिपन्नस्य जडस्य प्रतिभासायोगप्रतिपत्तिरित्यभिधातव्यम् । जडस्य प्रतीतिः प्रति
भासायोगश्चास्येत्यन्योन्यं विरोधात् । किं च जडस्य प्रतिभासायोगा१० दिति यदि प्रतिभासात्मत्वाभावसाधनायोच्यते । तदा सिद्धसाधनम् ।
जडस्य प्रतिभासाद्भिन्नस्वभावतयाऽस्माभिरप्यभ्युपगमात् । अथ प्रतिभाससंसर्गाभावसाधनाय तन्निरुपपत्तिकम् । हेतोः साध्याविशिष्टत्वात्। न च जडस्य प्रतिभाससंसर्गेण न भवितव्यमित्यस्ति राज्ञामाज्ञा । यथा
हि च्छिदिक्रिया छेद्येन सम्बध्यते मिद्यते च । तथा ज्ञानक्रियापि ३५ ज्ञेयेन सह सम्भन्स्यते भेत्स्यते च । तस्मादित्थं पदार्थानां परतः प्रकाश
स्यैव योगात् कथं स्वतः प्रकाशः सिद्धयेत् । नतु ज्ञानातिरिक्तस्यार्थस्य प्रसाधकप्रमाणाभावोऽस्माकं ततोऽपि परतः प्रकाशस्यानिश्चयस्त्वयाप्यर्थाभावाविर्भावकं प्रमाणमनुपदर्शयता प्रसाधकप्रमाणाभावभाषणमात्रेण न परतः प्रकाशः उत्कुंसयितुं शक्यते । न च यावदयमेकान्तेन निभर्सितस्तावत् स्वतः प्रकाशोऽपि सर्वथा सिद्धयति । तस्मात्सन्दिग्धासिद्धोऽप्येवमयम् । न च प्रकशमानत्वमेवार्थाभावसाधनोद्भुरमित्यभिधेयम् । अस्याद्यापि विप्रतिपत्तिभूरिभरावष्टम्भत्वेन किञ्चिदपि कर्तुमशक्तत्वात् । अस्ति चास्माकमर्थोपस्थापनसमर्थं प्रत्यक्षमेव प्रमाणम् । तथाहि ।
१ सन्दिग्धासिद्धः-धूमबाष्पादिविवेकानिश्चये कश्चिदाह वह्निमानयं प्रदेशः धूमवत्त्वात् इति ।
"Aho Shrut Gyanam"