________________
परि. १ स. १६]
स्याद्वादरत्नाकरसहितः
त्वात् । ननु यया प्रत्यासत्त्या ज्ञानमात्मानं विषयीकरोति तयैव चेदर्थ तर्हि तयोरैक्यम् । न ह्यूकस्वभाववेद्यमानकं भिन्नं युक्तम् । ऐक्यस्य सर्वथाप्यभावप्रसङ्गात् । अथान्यया, तर्हि स्वभावद्वयापत्तिर्ज्ञानस्य भवेत् । तदपि स्वभावद्वयं यद्यपरेण स्वभावद्वयेनाधिगच्छति । तदाऽनवस्था । तद्वेदनेऽप्यपरस्वभावद्वयापेक्षणात् । ततः स्वरूपमात्रग्राह्येव ज्ञानं नार्थग्राहीत्यकामेनापि स्वीकर्तव्यमिति चेत् । तदरमणीयम् । स्वार्थग्रहणोभयस्वभावत्वाद्विज्ञानस्य यथा तत्र नाभिहितदोषानुषङ्गस्तथा स्वसंवेदनसिद्धावभिधास्यते । कथं चैवंवादिनो रूपादेर्लिङ्गस्य वा सजातीयेतरकर्तृत्वम् । तवाप्यस्य पर्यनुयोगस्य समानत्वात् । तथाहि रूपादिकं लिङ्गं वा यया प्रत्यासत्या सजातीयक्षणं जनयति तयैव चेद्रसा- १० दिकमनुमानं वा । तर्हि तयोरैक्यमित्यन्यतरदेव स्यात् । अथान्यया तर्हि रूपादेरेकस्य स्वभावद्वयमायातं तत्र चानवस्था । परापरस्वभावद्वयपरिकल्पनात् । न खलु येन स्वभावेन रूपादिकमेकां शक्तिं बिभर्ति तेनैवापराम् । तयोरैक्यप्रसङ्गात् । अथ रूपादिकमेकस्वभावमपि भिन्नस्वभावं कार्यद्वयं कुर्यात्तत्करणैकस्वभावत्वात् । तर्हि ज्ञानमप्येक- १५ स्वभावं स्वार्थयोाहकमस्तु तद्ग्रहणैकस्वभावत्वात् । ननु व्यवहारेण कार्यकारणभावो न परमार्थतस्तेनायमदोष इति चेत् । तर्हि व्यवहारेगैवाहमहमिकया प्रतीयमानेन ज्ञानेन नीलादेरर्थस्य ग्रहणसिद्धिरित्यपि स्वीक्रियताम् । न चैवं परमार्थतो नार्थसिद्धिरिति वाच्यम् । व्यवहारस्यापि प्रमाणमन्तरेणानुपपत्तेरिति यद्यवहारसिद्धिः तत्पारमार्थि- २० कमेव । न खलु निखिलोपाख्याविकलं वन्ध्यास्तनन्धयादिव्यवहारेणापि सद्रूपतया साधयितुं केनापि शक्यत इति चेष्टोत्तरमात्रमेतत्तथागतानां व्यवहारेण कार्यकारणभावो न परमार्थत इति । यदप्युच्यते । जडस्य प्रतिभासायोगादिति । तत्राप्यप्रतिपन्नस्यास्य प्रतिभासायोगः प्रतिपन्नस्य वा । न तावदप्रतिपन्नस्यासौ प्रत्येतुं शक्यः । अन्यथा २५ सन्तानान्तरस्याप्रतिपन्नस्य स्वप्रतिभासायोगप्रसिद्धेस्तस्याप्यभावः स्या
"Aho Shrut Gyanam"