SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ १६४ १० १५ प्रमाणनयतत्त्वालोकालङ्कारः [ परि. १ सू. १६ नन्वेवं तदविशेषेऽपि किंचिदेव ज्ञानं कस्यचिदेवार्थस्य ग्राहकं किं नेष्यते । समकालविकल्पेऽपि न कश्चित् कलङ्कः । ननूक्तं तत्र । अयि सितादिनि वस्तुनि धीर्यथा प्रवरिवर्ति परिग्रहणोत्सुका । किमु तौ न तथा तव वस्त्वपि प्रवरिवर्ति परिग्रहणोत्सुकम् ॥ १५४॥ अत्रोच्यते Snippladdad ननु यथा सहसा महसां पतिः प्रकटयत्यखिलं भुवनोदरम् | त तथैव न किं कलशोऽप्यदः प्रकटयत्यखिलं भुवनोदरम् ॥ १५५॥ अथ भवान् कथयेत्कलशार्कयोरतिशयेन विलक्षणरूपताम् । वदति किं न तथा ग्रहणार्थयोरतिशयेन विलक्षणरूपताम् ॥१५६॥ किंच स्वकारणप्रतिनियमादर्थ एव ग्राह्यो ज्ञानमेव च ग्राहकमिति समकालत्वेऽपि तयोः कथं ग्राह्यग्राहकभावत्र्यत्ययः स्यात् । स्वकारणक्षणान्यपि कथमर्थमेव ग्राह्यं ज्ञानमेव च ग्राहकं जनयतीति तु पर्यनुयोगे स्वभाव एवोत्तरम् । न च स्वभावः पर्यनुयोगभूमिः । अणुमपि गुणमेव वीक्षते सुजनः सत्यपि दोषडम्बरे । तद्विपरीतस्तु दुर्जनः कुरुता पर्यनुयोगमत्र कः ॥ १५७ ॥ Arora काराणां यथा बुद्धिर्व्यापिका तथा नीलादयः किं नास्या व्यापकाः । नियतानां चैषां यथाऽसौ व्यापिका तथा सर्वेषामेव विश्ववर्त्तिनामाकाराणां किं न व्यापिकेति प्रेर्येत । तवापि स्वभावभेदादपरं किं नामोत्तरम् । यदि चार्थे ग्राह्यताप्रतीतेः स एव ग्राह्यो न ज्ञानम् ! २० यत्पुनरत्रोक्तं तद्व्यतिरेकेणास्याः प्रतीत्यभावादिति । तन्न । तद्व्यतिरेकेणास्याः प्रतीत्यभावासिद्धेः । ज्ञानग्रहणयोग्यतालक्षणस्य कथञ्चियतिरिक्तस्य ताख्यस्य धर्मस्यार्थेषु प्रतीतिसिद्धत्वात् । जडत्वादपि नार्थी ज्ञानस्य ग्राहकः | यस्तु तत्रेतरेतराश्रयः समुदीरितः । स न सङ्गतः । ज्ञानग्राहकत्वेन तस्यास्माभिर्जडत्वा२५ प्रसाधनात् । स्वभावादेव वस्तूनां जडत्वेनाजडत्वेन च व्यवस्थित " Aho Shrut Gyanam"
SR No.009662
Book TitleSyadvada Ratnakar Part 1
Original Sutra AuthorVadidevsuri
AuthorMotilal Laghaji
PublisherMotilal Laghaji
Publication Year
Total Pages274
LanguageSanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy