________________
परि. १ सू. १६]
: तथाह्यसम्बद्धागृहीतनिर्व्यापारसाकारपक्षेष्वनभ्युपगतोपालम्भेन केवलं कण्ठक्लेशमनुभूतवानसि । सम्बद्धादिपक्षास्त्वनवद्यकुक्षयः । संबन्धो हि योग्यतास्वभाव एव ज्ञानार्थयोर्ग्राह्यग्राहकभावाङ्गं न तु तादात्म्यादि । ज्ञानं हि स्वसामग्रीप्रतिनियमात्प्रतिनियतार्थसंवेदनयोग्यमेवोपजायते । अर्थोऽपि स्वसामग्रीविशेषादेव प्रतिनियतसंवेदन- ५ वेदनावेद्यतायोग्य एव समुत्पद्यत इति । गृहीतपक्षेऽपि यदुक्तं स्वतः परतो वेत्यादि । तत्र स्वत एवेति ब्रूमः । न च स्वतोऽस्य ग्रहणे स्वरूपमात्रप्रकाशनिमग्नत्वाद्बहिरर्थप्रकाशकत्वाभावः । विज्ञानस्य प्रदीपवत् स्वपरप्रकाशकस्वभावत्वात् । सव्यापारकल्पेऽपि व्यतिरिक्तविकल्पानवकाशः | स्वपर प्रकाशकस्वभावत्वव्यतिरेकेण ज्ञानस्य स्वपर - १० प्रकाशनेऽपरव्यापाराभावात् । तस्य च ज्ञानात्कथञ्चिद्व्यतिरिक्तत्वात् । यथा च तत्र विरोधादिकुनोद्यानामनवकाशस्तथा यतिष्यते । निराकारपक्षेऽपि भवदभिमतसा कारवादप्रतिक्षेपेण निराकारादेव प्रत्ययाद्यथा प्रतिकर्मव्यवस्था तथा प्रतिपादयिष्यते । एवं च " धियो नीलादिरूपत्वे बाह्योऽर्थः किंनिबन्धनः । धियोऽनीलादिरूपत्वे बाह्योऽर्थः १५ किंनिबन्धनः " ॥ इति यदुच्यते । तत्प्रत्युक्तम् । भिन्नकालप्रकाशकपक्षेऽपि यदवादि स्वकालेऽविद्यमानस्यार्थस्य ज्ञाने प्रकाशे सकलप्राणिनामशेषज्ञत्वप्रसङ्ग इति । तदप्यसङ्गतम् । भिन्नकालस्यापि योग्यस्यैवार्थस्य ज्ञानेन ग्रहणात् । दृश्यते हि पूर्वचरादिलिङ्गप्रभवप्रत्ययाद्भिन्नकालस्यापि प्रतिनियतस्यैव शकटोदयाद्यर्थस्य ग्रहणम् । किं चैवंवादि- २० नस्ते कथं भिन्नकालं किञ्चिदपि लिङ्गं साध्यस्यानुमापकं स्यात् । अनुमापकत्वे वा किञ्चिदेकमेव भस्मादिलिङ्गमतीतस्य पावकादेवि समस्तस्याप्यतीतानागतानुमेयस्य प्रतिपत्तिहेतुः स्याद्भिन्नकालत्वाविशेषापि किञ्चिदेव लिङ्गं कस्यचिदेवार्थस्यानुमापकमित्यदोषोऽयम् ।
स्याद्वादरत्नाकरसहितः
१ 'वेदना' इति प. पुस्तके नास्ति । २ 'विशेषात् । अथ भिन्नकालत्वाविशेषे ' इति प. म. पुस्तकयोः पाठः ।
"Aho Shrut Gyanam"
१६३