________________
[ परि. १ सू. १६
प्रमाणनयतत्त्वालोकालङ्कारः
९३
सत्त्वात् । गृहीतश्चेत् प्रकाशकः परः किं स्वतः परतो वा । स्वतश्चेत्, स्वरूपमात्रप्रकाशनिममत्वाद्बहिरर्थप्रकाशकत्वाभाव एव भवेत् । परतश्चेत्, अनवस्था । तस्यापि ज्ञानान्तरेण ग्रहणात्तथा चार्थग्रहणाभावः । अगृहीतश्चेत् प्रकाशकोऽतिप्रसङ्गः । निर्व्यापारश्चेदर्थस्यापि बोधं प्रति प्रकाशकत्वानुषङ्गः । सव्यापारश्चेदस्मादव्यतिरिक्तो व्यतिरिक्तो वा व्यापारो भवेत् । आधे पक्षे बोधमात्रमेव नापरो व्यापारः कश्चित् । न चानयोरभेदो युक्तो, धर्म्मधर्म्मितया लोके भेदप्रतीतेः । द्वितीये तु संबन्धासिद्धिस्ततस्तस्योपकाराभावात् । उपकारे वाऽनवस्था | तन्निर्वर्त्तितव्यापारस्य परव्यापारकल्पनानुषङ्गात् । निराकारश्चेदतः प्रति१० कर्म्मव्यवस्था न स्यात् । साकारश्चेद्वाह्यार्थपरिकल्पनानर्थक्यम् । नीलाद्याकारेण बोधेनैव पर्याप्तत्वात् । भिन्नकालश्चेत् । स्वकालेऽविद्यमानस्यार्थस्य ज्ञानेन प्रकाशे सकलप्राणिनामशेषज्ञत्वप्रसङ्गः । समकालश्चेत्तर्हि यथा ज्ञानमर्थस्य ग्राहकमेवमर्थोऽपि ज्ञानस्य ग्राहकः स्यात्समसमयभावित्वाविशेषात् । अथार्थे ग्राह्यताप्रतीतेः स एव १५ ग्राह्यो न ज्ञानमित्युच्यते । तन्न । तद्व्यतिरेकेणास्याः प्रतीत्यभावात् । स्वरूपस्य च ग्राह्यत्वे ज्ञानेऽपि तदस्तीति तत्रापि ग्राह्यता भवेत् । अथ जडत्वान्नार्थो ज्ञानस्य ग्राहकः । ननु कुतो जडत्वसिद्धिः । तदग्राहकत्वाच्चेत् अन्योन्याश्रयः । सिद्धे हि जडत्वे तदग्राहकत्वसिद्धिस्ततश्च जडत्वसिद्धिरिति ।
१६२
२०
कृतमनल्पविकल्पकदम्बकं प्रतिहतं परतः प्रतिभासनम् । सकलवस्तुगणस्य ततोऽपि न प्रफलितैव मनोरथमञ्जरी ॥ १५२ ॥ अत्रोच्यते
स्वीय कदाशयमात्रसमुत्थाः कत्तुमिमे भवदायविकल्पाः । सौधु वयस्य विचिन्तय शक्ताः किं परतः प्रतिभासनिरासम् ॥१५३॥
१ 'अर्था' इति भ. पुस्तके पाठ: । २ 'साध्य' इति भ. पुस्तके पाठः ।
" Aho Shrut Gyanam".