SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ परि. १ स. १६] स्थाद्वादरत्नाकरसहितः ___ करणम् । यदपि प्रकाशन्ते भावा इत्यादि न्यगादि । तत्र स्वतः प्रकाश ___ मानत्वं हेतुत्वेन विवक्षितं परतो वा । स्वतश्चेप्रकाशमानत्वहेतोरपा त्तर्हि प्रतिवादिनो हेतुरसिद्धः । न हि पर. निरपेक्षप्रकाशाः कुम्भादयः कस्यचित्प्रसिद्धा अन्यत्र महामोहसन्तमससञ्चयसमाच्छादितविवेकप्रकाशाद्योगाचारीत् ।। ५ अथ प्रकाशं परतोऽभ्युपैषि हेतोस्तदा स्यान्ननु वाद्यसिद्धिः । न जातु जीवन्नवलम्बते यद्विज्ञानवादी परतः प्रकाशम् ।। १४९।। विरुद्धतापि पक्षेऽस्मिन् साधनस्य विभाव्यते । भेदे सत्येव परतः प्रकाशस्योपपत्तितः ॥ १५० ॥ अर्थानां परतः प्रकाशनं न __ अथाभिधीयते हेतुः स्वत एव प्रकाशनम् । १० सम्भवतीति बौद्धमतस्य न चासिद्धः प्रकाशोऽयं परस्माजायते न यत् खण्डनम् । ॥ १५१॥ तथाहि परः प्रकाशयन् सम्बद्धोऽसम्बद्धो गृहीतोऽगृहीतो वा निर्व्यापारः सव्यापारो वा निराकारः साकारो वा भिन्नकालः समकालो वा पदार्थस्य प्रकाशकः स्यात् । न तावदसम्बद्धोऽतिप्रसङ्गात् सम्बद्धश्चत्तादात्म्येन ॥ तदुत्पत्त्या वा । यदि तादात्म्येन, तर्हि विज्ञप्तिरूपतापत्त्या पदार्थानां सिद्धं ज्ञानाद्वैतम् । विज्ञप्तेर्वा जडरूपतापत्त्या विश्वस्याप्यन्धबधिरत्वप्रसक्तिः । अथ तदुत्पत्त्या, तर्हि ज्ञानादर्थः समुपजायेतार्थाद्वा ज्ञानम् । प्रथमपक्षेऽर्थस्य ज्ञानरूपतापत्तिर्ज्ञानादुपजायमानत्वादुत्तरज्ञानक्षणवत् । द्वितीयपक्षेऽपि समकालाद्भिन्नकालाद्वाऽर्थाज्ज्ञानमुपजायेत । न तावत्स- २० मकालात्, समसमयमाविनोर्वामेतरविषाणयोरिव कार्यकारणभावस्याभावात् । भावे वा ज्ञानस्याप्यर्थं प्रति कारणत्वप्रसक्तिरविशेषात् । भिन्नकालात्तु ततस्तदुपजनने ज्ञानस्याहेतुकत्वप्रसङ्गः । तत्कालेऽर्थस्या २ योगाचर:-बौद्धभेदः । यतो बौद्धाश्चतुर्भेदाः 1 वैभाषिकसौत्रान्तिकमाध्यमिकयोगाचार इति भेदचतुष्टयेन । "Aho Shrut Gyanam"
SR No.009662
Book TitleSyadvada Ratnakar Part 1
Original Sutra AuthorVadidevsuri
AuthorMotilal Laghaji
PublisherMotilal Laghaji
Publication Year
Total Pages274
LanguageSanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy