SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ प्रमाणनयतत्त्वालोकालङ्कारः [ परि. १ सू. १६ योर्विषयविषयितया सहोपलम्भो नाभेदात् " इति । तत्किं भवतो विस्मृतम् । न च बाह्याभ्युपगमेन तदुक्तमिति वाच्यम् । अयुक्तस्योपगमस्याप्यभिधाने आचार्यस्यानुचितवक्तृत्वप्राप्तेः । अधुनापि तु दोलाधिरूढस्य प्रामातुर्विद्यत एव तेन विषयविषयितयापि सहोपलम्भ५ सम्भवाद्वयाप्तेरनिश्चयः । एवं च सन्दिग्धविपक्षव्यावृत्तिकत्वम् । तथाहि किमयं विषयविषयिभावात्सहोपलम्भनियमः स्यादुताभेदादिति । ननु कथं सन्दिग्धविपक्षव्यावृत्तिकत्वम् । विपक्षे बाधकप्रमाणस्य सद्भावात् । तथा च धर्मकीर्त्तिः " प्रतिबन्धकारणाभावात् " इति । राहुल एतद्वयाख्याति " प्रतिबन्ध एवं कारणं तस्याभावात् " । एतदुक्तं १० भवति । प्रतिबन्ध एव तादात्म्यलक्षणो मिश्रितावभासस्य कारणं तदभावे कारणाभावात्सहोपलम्भनियमाभावः स्यात् । भेदे हि न कार्य करणाभावव्यतिरेकेणापरः रः सम्बन्धस्तस्य च सहोपलम्भे निमित्तत्वे कुलालादिविवेकेन घटादयो न प्रतीयेरन् । एकसामग्र्यधीनत्वात्तन्निमित्तत्वे रसादिविवेकेन रूपादयो न प्रतीयेरन् । प्रतीयन्ते च । ततो न सम्बन्धान्तरप्रयुक्तं सहसंवेदनम् । अत एव प्रतिबन्धवासौ कारणं चेति प्रतिबन्धकारणं तस्य संबन्धिविशेषस्य सहवेदननिमित्तस्य तादात्म्यलक्षणस्याभावादित्यर्थः । तदेतदशोभनम् । ग्राह्यग्राहकभावस्यैव प्रतिबन्धस्य ज्ञानार्थयोः सहोपलम्भनियम कारणत्वोपपत्तेरुक्तत्वात् प्रतिबन्धकारणाभावादित्यस्यासिद्धत्वात् । अभिधास्यते च सविस्तरं २० पुरस्ताद्यथा न तादात्म्यतदुत्पत्ती पदार्थोपलम्भे निबन्धनमिति । दृष्टान्तोऽपि प्रकृतानुमाने साध्यशून्यः । द्वितीयचन्द्रमसि भ्रान्तज्ञानेन भिन्नतया समारोपितस्वरूपे सुधांशुना सहाभेदस्य साध्यस्यासंभवादिति । एवं च- १५ १६० २५ सहोपलम्भनियमादित्येतत्कीर्त्तिकीर्तितम् ॥ निकारं कमपि प्रापि प्रोक्तप्रोद्बलयुक्तितः ॥ १४८ ॥ १ सत्यसुधांशुना ' इति प. पुस्तके पाठः । · "Aho Shrut Gyanam"
SR No.009662
Book TitleSyadvada Ratnakar Part 1
Original Sutra AuthorVadidevsuri
AuthorMotilal Laghaji
PublisherMotilal Laghaji
Publication Year
Total Pages274
LanguageSanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy