________________
पर. १सू. १६] स्याहादरत्नाकरसहितः .. रणस्य नीलोत्पलाद केनैवोपलम्भः । सर्वेषामेकार्थदर्शनात् । किं च यावदन्योपलम्भप्रतिषेधो न कृतस्तावन्नैकेनैवोपलम्भो नीलादेः सिद्धयति । न च परोपलम्भप्रतिषेधसम्भवः स्वभावविप्रकृष्टत्वात्परचित्तानां तेन सन्दिग्धासिद्धताऽपि । स्वज्ञानांशमेव सर्वे पश्यन्ति नत्वेकं बहिर्बहुसाधारणं नीलादीति त्वद्यापि . स्वगृहमान्यम् । ५ एवं च न नीलादेरेकेनैवोपलम्भः सिद्धयति । नापि तदुपलम्भस्य । यावन्तो हि प्रमातारस्तावन्त उपलम्मा नीलादेः । न च तेषामेकेनैवोपलम्भः प्रातिस्विकत्वात् । एतेन नीलतदुपलम्भयोरेकेनैवोपलम्भ इत्यप्रसिद्धमुक्तम् । अथैकस्यैवोपलम्भ एकोपलम्भः । नत्वयमप्यसिद्ध एव । नीलं विलोकयामीति नीलतदुपलम्भयोरुभयोरप्युप- १० लभ्यमानत्वात् । एतेनैकलोलीभावेनैवोपलम्भः सहोपलम्भनियमश्चित्रज्ञानाकारवदशक्यविवेचनत्वं साधनमसिद्धं प्रतिपत्तव्यम् । अन्तर्बहिर्देशस्थतया विवेकेन ज्ञानार्थयोः प्रतीतेः । पक्षचतुष्टयेऽपि वाऽस्मिन्नायमेकार्थः सहशब्दः सङ्गच्छते । तथाप्रतीतेरभावात् । परार्थेऽनुमाने वक्तुबचनगुणदोषाश्चिन्त्यन्ते इति हि न्यायमुद्रा । ततश्च । परं प्रतिपाद- १५ यताऽनेन साङ्केतिकशब्दार्थवादिनापि नूनं प्रतिपदार्थकः शब्द उपादेयोऽन्यथा प्रतीतेरभावात् । लोके नायमेकार्थवाचकः क्वचिदपि विलोक्यते । सन्दिग्धविपक्षव्यावृत्तिकश्च सहोपलम्भनियमहेतुः । अभेदमन्तरेणापि तस्य सद्भावात् । ग्राह्यग्राहकभावप्रतिनियमकृतो हि सहोपलम्भनियमस्तथैव तयोः स्वहेतोः समुत्पादात् । एवं च ज्ञानेनात्मा- २० र्थश्च यथा गृह्यते तथाऽर्थेनाप्यात्मार्थश्च गृह्यतां भेदाविशेषादित्यप्रकाशनीयमेव । न हि ज्ञानव्यतिरेकेणान्यस्य कस्यचित् ग्राहकस्वभावलमस्ति । येन ज्ञानादन्येनार्थेनाप्यर्थस्यात्मनश्चोफ्लम्भो भवेत् । तस्मात्सहोपलम्भनियमश्च स्याद्भेदश्चेति हेतोरभेदेन व्यायसिद्धिः । तथा च स्वयमेव धर्मकीर्तिना लोकायतं प्रत्युक्तं वार्तिके, " देहत- १५ __ १नन्वयम् ' इति प. म. पुस्तकयोः पाठः । २ धर्मकीर्तिप्रणीतः प्रमाणवार्तिककारिकाख्यो ग्रन्थोऽस्ति । .
"Aho Shrut Gyanam"