SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ प्रमाणनयतत्त्वालोकालङ्कारः [ परि. १ सू. १६ 7 यथा च विचारयतः कृत्तिकानां विवेकेनोपलम्भस्तथा ज्ञानार्थयोरपि । विरुद्धश्वायम् । इमे मुनिमतल्लिके सह समागते महान् ' इत्यादौ युगपदर्थस्य सहशब्दस्य भेदे सत्येवोपलम्भात् । अथ मनुष्यैश्रन्तेरभिन्नमपि बाह्यं ज्ञानाद्भेदेनावसीयते तदपेक्षया युगपदुपलम्भ ५ इत्युच्यते द्विचन्द्रोपलम्भवत् । वस्तुस्थित्या त्वेकस्यैवोपलम्भ इति । तदसत् । भिन्नेनारोपिताकारेण वस्तुभूतस्याकारस्याभेदसाधनविरोधात् । न ह्यारोपितपीताकारेण शङ्खरूपस्याभेदः सम्भवति । तदानीमेव नरान्तरैस्तस्य श्वेताकारस्यैवोपलम्भात् । सिद्धे चाभेदे व्यवसायस्य भ्रान्तत्वं सिद्धयेन्न चासावद्यापि सिद्धः । यत्तु धर्मोत्तरः प्राह । अन२० योश्च यथाभावासङ्कल्पितभेद योस्तात्त्विको भेदो नास्तीत्युच्यते ततः कल्पितभेदनिबन्धनः सहशब्दप्रयोग इति को विरोध इति । तदपि विकल्पारूढ एव भेदो व्यवहाराङ्गमित्याद्याशंक्य नन्वसावपि सत्योऽसत्यो वेत्यादिनाऽत्रैव तत्त्वतस्तिरस्कृतम् । क्रमेणोपलम्भाभावस्तु सहोपलम्भोऽसिद्धः क्रमोपलम्भाभावमात्रस्य तुच्छस्य वादिप्रतिवादिनोर१५ प्रतीतत्वात् । किं च क्रमेणोपलम्भाभावमात्रादभेद एकत्वं साध्यते भेदाभावो वा नाद्यः पक्षः । भावाभावयोस्तादात्म्यतदुत्पत्तिलक्षणसम्ब न्धाभावतो गम्यगमकभावायोगात् । द्वितीय विकल्पेऽप्यभावस्वभावत्वात्साध्यसाधनयोः सम्बन्धाभावान्न गम्यगमकभावस्तादात्म्यतदुत्पत्त्याव भावस्वभावप्रतिनियमात् इष्टसिद्ध्यभावश्च । सिद्धेऽपि भेदप्रतिषेधे २० विज्ञप्तिमात्रस्येष्टस्यातोऽप्रसिद्धेर्भेदप्रतिषेधमात्रेऽस्य चरितार्थत्वात् । अथैकोपलम्भः सहोपलम्भः । ननु किमेकत्वेनैवोपलम्भ एकोपलम्भः स्यादेकेनैव वा एकस्यैव वैकलोलीभावेएकोपलम्भरूपस्य सहोपल-: म्भस्य खण्डनम्। नैव वां । आद्यपक्षेऽसिद्धता । द्वितीयषक्षेऽपि कस्यैकेनैवोपलम्भो नीलादेस्तदुपलम्भस्योभयस्य २५ वा । तत्राद्यपक्षेऽसिद्धिः । तथाहि जलाशयादिष्वनेकपुरुषदर्शनसाधा१ प्रशस्तौ मुनी । मतहिका मचर्चिका प्रकाण्डमुद्धतहजौ । प्रशस्तवाचकान्यमूनी त्यमरोक्तः । २ ' वा' इति प. पुस्तके नास्ति । "Aho Shrut Gyanam"
SR No.009662
Book TitleSyadvada Ratnakar Part 1
Original Sutra AuthorVadidevsuri
AuthorMotilal Laghaji
PublisherMotilal Laghaji
Publication Year
Total Pages274
LanguageSanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy