________________
परि. १ सू. १६} स्याद्वादरत्नाकरसहितः । मस्याप्तता स्यात् । गलितसकलमलपटलत्वेनात्यन्तविशुद्धत्वादिति चेत् । ननु विशुद्धत्वमपि किं कुर्वदाप्ततायां निमित्तम् । परार्थं सम्पादयदिति चेत् । कथं पराप्रतिपत्तौ तदर्थसम्पादनं नाम । तथापि तत्सम्पादने कौतस्कुतः प्रयोजनप्रतिनियमः 1 अचिन्त्यया तु शक्त्या कयाचित्तेन परप्रतिपत्तौ नीलादिरपि ग्राह्यग्राहकभावं विनै- ५ वास्मदादिभिस्तादृशशक्तिसद्भावात् ग्रहीष्यत इति स्वरूपासिद्धः सहोपलम्भनियमः सुगतस्यैवैतादृशशक्तिसद्भावो नास्मदादेरित्ययं तु शपथमात्रशरणानामुल्लापः । एतेन यदाह कमलशील: "सर्वार्थकारित्वात्तु सर्वज्ञ इष्यत" इति तदप्यपास्तमिति । नायमप्यनैकान्तिकत्वकुट्टनप्रकारः । यस्तु सर्वज्ञः सन्तानान्तरं वा नेप्यते १० तत्कथं व्यभिचार इति व्यभिचारपरिहारमाह । स केवलं विलक्षीभूतः प्रलपति । शून्यतावादस्यैवं प्रसङ्गात्तस्य च पुरस्तात्पराकरिष्यमाणत्वाद्विज्ञप्तिमात्राभ्युपगमविरोधाच्च । तथा न ताथागत तत्त्वतस्त्वया तथागतश्चेत्सकलज्ञ इष्यते । प्रमाणभूताय जगद्धितैषिणे इति स्फुट तर्हि स संस्तुतः कथम् ॥१४४॥ १५ अद्वैतसिद्धयादिषु संस्तुतोऽसौ दिग्नागमुख्यैरपि किं महद्भिः । मतिर्न तेषामसति स्तवाय प्रवर्त्तते यद्विलसद्विवेका ॥ १४५ ॥ विचार्य मुञ्चन्ति विपश्चितस्ते तमित्यदोषोऽयमुदीरितश्चेत् ।। नन्वस्य पश्चादपि हेयतायां युक्तं पुरैवेश्वरवत्प्रहाणम् ॥ १४६ ॥ संवेदनाद्वैतमथापि तत्त्वं तथातथा ते बत संस्तुवन्ति । अलीकमेतन्न यदस्ति तत्र श्रोतृस्तुतिस्तुत्यफलादिभावः ॥ १४७ ॥
कृत्तिकाभिश्च व्यभिचारः प्रकृतहेतौ । तथा हि तासु युगपदुपलम्भनियमोऽस्ति न चाभेदः तद्भेदस्य सर्वाविसंवादेन प्रसिद्धत्वात् ।
१ 'सुगतस्यैव तादृश' इति भ. पुस्तके पाठः। २ न्यायबिन्दुपूर्वपक्षसंक्षेपाख्याया न्यायविन्दुटीकायाः प्रणेता कमलशीलो बौद्धाचार्यः । ऐशवीय ७५० समसमये प्रादुरभूत् । ३ अयमद्वैतसिद्धिग्रन्थो दिङ्नागप्रणीतो ग्राह्यो न तु मधुसूदनप्रणीतः मधुसूदनस्य वादिदेवसूरेः पश्चाद्भावित्वात् ।
"Aho Shrut Gyanam"