________________
प्रमाणनयत्तत्त्वा लोकालङ्कारः [ परि. १ सू. १६
पलम्भ एव मृगाङ्कमण्डलोपलम्भः । यज्ञदत्तादिमृगाङ्कमण्डलज्ञानोपलम्भस्यापि त्वन्मते मृगाङ्कमण्डलोपलम्भस्वभावत्वात् । अथ सर्व एव देवदत्तादयः स्वज्ञानांशमेव पश्यन्ति न पुनरेकं मृगाङ्कादिकं बहिस्त्विति । तदेतत् कूर्परे गुडोयितं वर्त्तते । बाह्यार्थभावस्याद्याप्यसिद्धेः । ५ तत्सिद्धिर्हि सहोपलम्भनियमादेव अभिधीयते तत्र चेतरेतराश्रयत्वम् । प्रतिवाद्यसिद्धश्चायं हेतुः । न खलु य एव ज्ञानोपलम्भः स एव ज्ञेयोपलम्भो य एव च ज्ञेयोपलम्भः स एव ज्ञानोपलम्भ इति जैनानामभ्युपगमः । ज्ञानस्य कर्तुः स्वोपलम्भक्रियातः सकाशाद्वहिर्वस्तूपलम्भक्रिययोः कथञ्चिद्भिन्नत्वेन तैरभ्युपगमात् । एककर्तृकाणामपि हि २० क्रियाणां विषयभेदाद्भेदोऽवश्यमाश्रयणीयोऽपरथैकदेवदत्त विधीयमानतिलपाकतण्डुलपाकयोरप्येक प्रसङ्गः । एवं च ज्ञानोपलम्भस्य ज्ञानविषयत्वात् ज्ञेयोपलम्भस्य च ज्ञेयविषयत्वात् विषयभेदव्यवस्थितेस्तयोर्भेद एव स्वीकर्त्तव्यः । ज्ञानात्पृथग्भूतस्य ज्ञेयस्यासत्त्वात् विषयभेदोऽसिद्ध एवेति चेत् । न तथाभूतज्ञेयासत्त्वमनोरथमहाधुराया १५ विवादपङ्कनिमने सति सहोपलम्भनियमे केनापि वोढुमशक्यत्वात् । तन्न ज्ञानोपलम्भ एवेत्यादिधर्मोत्तरोक्तव्यभिचारपरिहारः पेशलः । अन्यस्त्वेवं व्यभिचारपरिहारमाह । यदि सुगतचित्तेन ज्ञेयचित्तानां ग्राह्यग्राहकभावो भवेत्तदा तत्र युगपदुपलम्भसहोपलम्भस्य विस्तरशः नियमसद्भावेऽप्यभेदाभावाद्भवेव्यभिचारो न चैवम् । खण्डनम् । सर्वावर वियेन ग्राह्यग्राहकाकारकलङ्कविकलत्वाद्भगवच्चित्तस्य । तदुक्तं " ग्राह्यं न तस्य ग्रहणं न तेन ज्ञानान्तरग्राह्यतयाऽपि शून्यम्” इति । तदसुन्दरम् | यदि हि सन्तानान्तरैः सुगतसंवेदनस्य ग्राह्यग्राहकभावो नास्ति तदा कथं तस्य सन्तानान्तरसंवित्तिः । को नामाभ्युपैति भगवतः सन्तानान्तरसंवेदनमिति चेत् । तर्हि कथ
१५६
२०
१ कूर्परे गुडाभावेऽपि गुडबुध्या लिहन्ति बालास्तद्वत् । २ इति प. म. पुस्तकयोः पाठः ।
" Aho Shrut Gyanam".
6 एकत्वप्रसङ्ग
·