________________
परि.१ सू. १६]
स्याद्वादरत्नाकरसहितः ।
रूपः कथमसंस्तेन जन्यताम् । झानरूपश्चेत्कथं नियामकं विना तद्विषयः । स्वकारणसामर्थ्यादिति चेत् । सोऽयं व्यवहाररूपज्ञानालीकभेदयोर्नियामकान्तराभावेऽपि कारणसामर्थ्यमाश्रित्य विषयविषयिभावमिच्छति न त्वनुभवानुभाव्ययोरिति क्षीरं विहाय सौवीरे रतिररोचकग्रस्तस्य । विकल्पाकार एव भेद इति चेत् । यद्यसन्ने- ५ वासौ, कथं विकल्पाकारः तदाकारश्चेत्कथमसन्नेवेति परिभाव्यताम् । अस्तु तर्हि भेदः सन्नेवेति चेत् । नन्वद्वयदर्शि चेद्विज्ञानं कथं भेदप्रथा । आकारद्वयदर्शि चेत्
____कथमेकं सत्तद्वयात्मकम् । चित्राकारमिति विज्ञानमयदर्शि आकारद्वयदर्शि येति विचारः । चेत् । चित्रमप्येकमनेकं वेति विकल्पगिलित- १०
मेव तव पश्यत: । आकाराणामनेकत्वे हि क नामैकविज्ञानतादात्म्यमेषाम् । विज्ञानस्यापि यावदाकारमनेकत्वे क चित्राकारसंवेदनम् । स्वस्वमात्रममत्वात् । एकत्वे त्वाकाराणां क भेदप्रतीतिः स्यात् । निराकरिष्यते च सविस्तरं पुरस्ताच्चित्रज्ञानमिति । सहोपलम्भोऽपि किं युगपदुपलम्भः क्रमेणोपलम्भाभावः एकोपलम्भो १५ वाऽभिप्रेतो यस्य नियमो हेतुः स्यात् । यदि युगपदुपलम्भस्तदा बुद्धज्ञानेन व्यभिचारी हेतुः । तथाहि यहुद्धस्य ज्ञेयं सन्तानान्तर. चित्तं तस्य बुद्धज्ञानस्य च सहोपलम्भनियमोऽस्ति । सन्तानान्तरचित्तोपलम्भमन्तरेण बुद्धज्ञानस्य कदाचिदनुपलम्भात् । न च तस्य तेन सहाभेदः । अत्र धर्मोत्तरानुसारी समाधत्ते । नायं व्यभिचारश्चतुरस्रः। २० बुद्धज्ञाने युगपदुपलम्भनियमस्यैवासम्भवात् । यो हि ज्ञानोपलम्भ एव ज्ञेयोपलम्भो ज्ञेयोपलम्भ एव ज्ञानोपलम्भः स युगपदुपलम्भनियमोऽभिधीयते । न चायमीहशो बुद्धज्ञाने सम्भवति । पृथक् सन्तानान्तरैः स्वचित्तसंवेदनात् । तदेतदरमणीयम् । एवं पक्षकदेशासिद्धताप्रसक्तेः। एकस्मिन्नहमहमिकया बहुभिरुप्युपलभ्यमाने मृगाङ्कमण्डले यथोक्तरूपे २५ युगपत्तदुपलम्मनियमस्यासम्भवात् । न खलु देवदत्तमृगाङ्कमण्डलज्ञानो
"Aho Shrut Gyanam"