SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ प्रमाणनयतत्त्वालोकालङ्कारः [ परि. १ सू. १६ च यद्यप्येकानेकस्वभावयोर्वस्त्वं न्यभावस्तथाऽपि कथञ्चिदेकाने काख्यस्य स्वभावान्तरस्य तत्र सम्भवात्सत्त्वं न विरुद्धधते । तेनैव तस्य व्याप्तत्वात् । अथ सत्त्वं निरवयवत्वं च सावयवत्वेन प्रतिभासमानान्नीलादेः स्थूलाद्यावर्तमानं सत्त्वं निवर्तयतीति वर्ण्यते । नतु निरवयवं पर५ माणुपर्यन्तं तावन्नावभासते यत्पुनः कतिपयपरमाणुप्रचयात्मकं प्रतिभासते तत्सकलं सावयवं ततश्च यन्न प्रतिभाति तत्सत् यत्तु प्रतिभाति तदसदित्यतिशय शुचिवादवातूलब्राह्मणस्याशुचिलक्षणमिव तवापतितम् । विज्ञानं निरवयवं सदुपलब्धमिति चेत् । नैतदस्ति । विज्ञानस्यापि सप्रदेशादात्मनः कथञ्चिदभिन्नत्वेन निरवयवत्वासिद्धेः । तन्न सद१० सतोरप्यभेदः साधनीयः । प्रत्यक्षविरुद्धश्चात्रानुमाने पक्षः । तथाहि ज्ञानस्य विच्छिनार्थग्राहित्वेनानुभूयमानत्वादर्थज्ञानयोर्भेदमेव स्वसंवेदनप्रत्यक्षमुपस्थापयति । अथासत्य एव भेदोऽल परिस्फुरतीति कथमेतद्विरुद्धता पक्षस्य स्यात् । तदसत् । हेतोरनैकान्तिकत्वप्रसक्तेः । तथाहि भेदस्य ज्ञानेन सहोपलम्भनियमः समस्ति स चासौ ज्ञानादभिन्नः । १५ भेदस्यासत्यस्य सत्येन ज्ञानेनामेदायोगात् । भेदो न प्रतिभासत एवेति चेत् । एवं तर्हि विश्वजनप्रतीतिविरोधः स्पष्टः । ज्ञानार्थयोरभेद इति च स्ववचनविरोधः सहोपलम्भनियमहेत्वसिद्धिश्च । नहि भेदाप्रतिभासे सहार्थः कथमपि व्यवस्थापयितुं पार्यते । कथं च भेदाप्रतिभासे पक्षादिप्रविभागो भवेत् । कं च बोधयितुं प्रवृत्तोऽसि किमर्थं च अन्व२० यव्यतिरेकाप्रतीतौ किञ्च हेतोर्बलम् । कुतश्च विप्रतिपत्तिः कीदृशी वेति । विकल्पारूढ एव भेदो व्यवहाराङ्गं नानुभवारूढ इति चेत् । नन्वसावपि सत्योऽसत्यो वा तत्र प्रतिभासते । आद्ये कल्पे कथमर्थप्रतिक्षेपः । द्वितीये तु हेतोरनैकान्तिकमुक्तमेव । असत्यपि भेदे तगोचरो व्यवहारो विकल्पेन जन्यत इति चेत् मैवम् । व्यवहारोऽपि यद्यज्ञान १५४ ' १ वस्तुन्यभाव ' इति प. पुस्तके पाठः । २ ' प्रतिभासेत ' इति प. पुस्तके पाठ: । " Aho Shrut Gyanam".
SR No.009662
Book TitleSyadvada Ratnakar Part 1
Original Sutra AuthorVadidevsuri
AuthorMotilal Laghaji
PublisherMotilal Laghaji
Publication Year
Total Pages274
LanguageSanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy