________________
परि. १ सू. १६] स्याद्वादरत्नाकरसहितः व्याघातः । तथा विज्ञानवादिनोऽप्रसिद्धविशेष्यत्वं प्रतिज्ञादोषः । नीलतद्धियोर्विशेष्ययोः स्वयमनिष्टेः । तस्मान्न सतोरैक्यमभेदः । नाप्यभिन्नजातीयत्वम् । तद्धि सर्वथा कथाञ्चिद्वा स्यात् । न तावत्सर्वथा । तथाल्वे हि तयोवितततृष्णापनोदाय नदोदकमन्वेषयतस्तदनासादने नदोदकसंवेदनेऽपि दुर्निवारा प्रवृत्तिर्जनस्य । न चास्य तस्मिन्नन्तः- ५ स्थिते प्रवृत्तिः परिदृश्यते । बहिर्मुखमेव तस्याः सन्दर्शनात् । नापि कथञ्चित् । सिद्धसाध्यतापत्तेः । सत्त्वज्ञेयत्वादिभेिानार्थयोरभिन्नजातीयत्वस्यास्माकमभिप्रेतत्वात् । किञ्चाभिन्नजातीयत्वे ऐक्ये वा साध्ये विवक्षिते कथं सहोपलम्भनियमस्य व्यापकविरुद्धोपलब्धित्वं स्यादनुपलब्धीनां निषेधसाधकत्वेन समानत्वात् ।। अथ भेदप्रतिषेधमानं साध्योऽर्थः । सोऽप्यसाधीयान् । यदि हि
. सतोवस्तुद्वयस्य भेदो न भवेत्तत्र च द्विवचनोभेदप्रतिषेधः सतोर्वा सदसतोवेति विपादानमेव कथमुपपद्येत । नापि सदसतोरभेदः
ल्प्य खण्डनम्। साध्यः । यतोऽसदिति सत्सदृशं किञ्चिदमिधीयते । सत्प्रतिषेधमात्रं वा । नाद्यः पक्षः । सत्सदृशस्य कस्यचिद- १५ सत्त्वात् । सद्रूपं हि विज्ञानमभ्युपगतं तत्सदृशं तु किं नाम विज्ञानमात्रवादिनः स्यात् । अथ सत्प्रतिषेधमात्रमसच्छवाभिधेयम् । तर्हि तस्य सतश्च परस्परमभेदसाधने ज्ञानाज्ञानाभावयोरप्यभेदसाधनप्रसक्त्या ज्ञानस्याप्यभावप्रसङ्गः । किञ्च ज्ञानं सदर्थश्चासन्निति भवतोऽत्राभिप्राय अर्थस्य चासत्त्वमद्याप्यसिद्धमिति कथपसद्रूपस्यार्थस्य धर्मित्वम् । अथै- २० कानेकस्वभावायोगादर्थस्यासत्त्वं सिद्धमेव । न चैकानेकस्वभावायोगोऽस्यासिद्धः । तथाहि यद्ययमेकरूपस्तर्हि प्रत्यासन्नदूरवर्तिनां स्पष्टास्पष्टप्रतिभासभेदो न भवेत् । अथानेकरूपस्तदा परमाणुशो भेदान्न कस्यचिदेकस्य स्पष्टत्वेनास्पष्टत्वेन वा स्थूलस्य प्रतिभासः स्यादिति चेत् । तर्हि तत एव ज्ञानमात्रवादस्याप्यसिद्धेः कृतं प्रकृतेन प्रकृतिश्यामलान्ध्र- २५ ललनाकपोलस्थलोपकल्पितकश्मीरजपत्रभङ्गायमानेनानुमानेन । किं
"Aho Shrut Gyanam"