________________
१५२
प्रमाणनयतत्त्वालोकालङ्कारः [परि. १ सू. १६ नस्य न हि तस्यार्थक्रियाधीनं सत्त्वमपि तु प्रतिभासमात्राधीनम् । नापि तत्रार्थक्रियार्थिनः काचित्प्रवृत्तिः, स्वरसवाहिविज्ञानप्रवाहातिरिताया अर्थक्रियायास्तदर्थिनश्चाभावात् । विवेचनाभावश्चात्र परमो निर्वाहः स्वसंविदितरूपत्वादिति चेत् । तत्किमङ्ग परिणतशान्तेराश्रमपदमिव विज्ञानमासाद्य व्यालनकुलादीनामिव नीलधवलादीनां शाश्वतिकविरोधपरित्यागो निभृतविरोधानां तत्फलपरित्यागो वा । न तावत् प्रथमः पक्षः । परस्परनिषेधविधिनान्तरीयकयोर्विधिनिषेधयोविरोधोच्छेदप्रसङ्गात् । न चैवमस्त्वित्युत्तरेऽपि विरोधोच्छेदः । विधिनिषे
धयोः परस्परनिषेधविधिनान्तरीयकतायाः कथमप्यनतिवृत्तेस्तावन्मात्र१. शरीरत्वाच्च विरोधस्य । तत्सिद्धिरेव च भेदसिद्धिः । अत एव च न द्वितीयो विकल्पः । यस्तु बाह्ये विरुद्धधर्माध्यासाद्भेदसाध्यसाधनाय तथात्वेऽपि तस्याभेदेऽर्थक्रियाणामित्यादिबाधकोपन्यासः कृतः । सोऽपि न पेशलः । यतो विरुद्धधर्माध्यासस्य भेदसाधकत्वे सिद्धे सत्यर्थक्रियाणां
भेदसिद्धेस्तत्सङ्करप्रसङ्गो बाधकः सेत्स्यति तत्सङ्करप्रसङ्गे च बांधके १५ सिद्धे सति विरुद्धधर्माध्यासस्य भेदसाधकत्वं सेत्स्यतीत्यन्योऽन्यसंश्रयो
दोषः । अन्यच्च यथा बाह्येऽर्थक्रियासंकरः प्रसज्यत इति दण्डस्तथा ज्ञानेऽपि प्रतिभाससङ्करः प्रसज्यत इति दण्डः । ननु प्रतिभाससाङ्कर्यनियमोऽसिद्धो नीलपीतादेः सहापि क्वचित्प्रतिभासदर्शनादिति चेत् ।
मनु न सहाप्रतिभासमसाङ्कयं ब्रूमः । किन्तु नीलस्यैव पीतत्वेन पीतस्यैव २० नीलत्वेनाप्रतिभासं पररूपत्वेनाप्रतिभासम् । पररूपाप्रतिभास एव च मूलं
सर्वविरोधानाम् । अन्यथोपलम्भानुपलम्भयोरप्यसाकर्यस्यासिद्धिरेव । विशेषाभावात् । एतेन विवेचनाभावश्चात्र परमो निर्वाह इत्यपि निरस्तम् । आकारयोरसम्भेदेन वेदनस्यैव विवेचनत्वात् । अपि
चार्थसंविदोः सह दर्शनमुपेत्यैकत्वैकान्तं साधयतोऽस्य दुर्निवारः २५ स्ववचनविरोधावतारः। स्वोक्तस्य धर्मिभेदवचनस्य हेतुदृष्टान्तभेदवचनस्य
चैकत्वैकान्तवचनेन विरोधात् एकत्वैकान्तवचनस्य च तद्भेदवचनेन
"Aho Shrut Gyanam"