________________
परि. १ सू. १६] स्याद्वादरत्नाकरसहितः
ततो ज्ञानाभावे ग्राह्याकारस्यानुपलम्भात् तद्भावे चोपलम्भादन्वयव्यतिरेकाभ्यां ज्ञानस्यैवायमवसीयते ।।
एतैरित्थं प्रतिहतपरप्रेर्यपुजैः प्रमाणैः
सिद्धं सन्तः सपदि सकलं वस्तु विज्ञप्तिमात्रम् । सर्वाः सम्प्रत्यखिलविदुषां तर्कगोष्ठीषु तस्मात् .
मन्ये प्राप्ताः स्मरणपदवीं बाह्यभावप्रतिष्ठाः ।। १४२ ।। इत्थं बोधम्प्रति हि विमुखं किञ्चिदुच्चार्य बाह्य __वस्तुद्वेष्टा कथयतितरां तात्त्विकं ज्ञप्तिमात्रम् । निन्दामज्ञस्तदनु तनुते सर्वविद्वत्सभानां
भोः प्रेक्षध्वं तदिदमसमं धाष्टमेतस्य सभ्याः ॥ १४३॥ १० तथाहि ययोः सहोपलम्भ इत्यादावभेदः सतोः सदसतोर्वा सिषायिषितः । यदि सतोस्तदाप्यभेदः । किमैक्यमभिन्नजातीयत्वम्, भेदप्रतिषेधमात्रं वा विवक्षितं, आद्यपक्षे पक्षैकदेशस्यानुमानबाधा । तथाहि नीलधवलादिपरस्परविरुद्धाकारावगाहि चित्रज्ञानमनुभूयते, निर्विवादं च तदेकमेवेप्यते तद्वद्यास्तु नीलधवलाद्याकाराः परस्परविरो- १५ धित्वाद्भिन्ना एवाभ्युपगन्तव्याः ।
एवं च यदेकं न तदनेकैरेक्यमनुभवति । यथा घटस्वरूपं पटशकटादिभिः ! एक च नीलधवलाद्याकारावगाहिचित्रज्ञानं तत्कथं नीलादिभिरनेकाकारैरैक्यमनुभवेत् । ज्ञानेन साकमैक्यामारे च । तेषामर्थरूपतैवेति । सकलज्ञानार्थरूपपक्षान्त:पतितयोश्चित्रज्ञानतद्विषय- २० नीलधबलाद्यर्थयोरैक्यासिद्धेः पक्षैकदेशस्मानुमानबाधा स्पष्टैव । तथा च विवादापन्नं ज्ञानमर्थात्पृथग् ज्ञानत्वान्नीलधवलाद्याकारगोचरैकचित्रज्ञानवदिति सर्वज्ञानानामर्थात्पृथक्त्वसिद्धेः पक्षस्याप्यनुमानबाधा । __ अथ बाह्यस्यैव विरुद्धधर्माध्यासाझेदस्तथात्वेऽपि तस्याभेदेऽर्थक्रियाणां . चेतनप्रवृत्तीनां च सकरप्रसङ्गाद्विवेचनानुपपत्तिप्रसाच्च । न तु विज्ञा- २५
"Aho Shrut Gyanam"