________________
५
प्रमाणनयतत्त्वालोकालङ्कारः [परि. १ सू.१६ अनयोरर्थः स्वरूपेणाविद्यमानवेद्यवेदकाकाराऽपि बुद्धिर्यथा भ्रान्तैर्व्यवहर्तृभिर्निरीक्ष्यते । तथैव कृतव्यवस्थेयं व्यवद्वियते । तैस्तु भ्रान्तैरियं विभक्तलक्षणग्राह्यग्राहकाकारविप्लवा निरीक्ष्यते विभक्त
लक्षणौ ग्राह्यग्राहकाकारावेव विप्लवो यस्याः सा तथोक्ता । किमिव .५ केशादिज्ञानभेदवत् । यथा तिमिराद्युपप्लुताक्षाणां न विद्यमाना एव
केशादयो बोधाद्भिन्नाः प्रतिभान्ति तद्वन्नीलाश्रयोऽपीति । यथाऽयमविद्यानिबन्धन एव बुद्धेः प्रविभागस्तदयं न सन्नोद्यग्राह्यग्राहकलक्षणा, सन्नोद्ये पर्यनुयोज्ये ग्राह्यग्राहकलक्षणे यस्याः सा तथा न भवति । न
यविद्यासमारोपिताकारः पर्यनुयोगमहतीति । तदेवं बुद्धिव्यतिरिक्त१० ग्राह्यग्राहकासम्भवाद्बुद्धिरेवानादिवासनावशादनेकाकारा प्रतिभासते । तदुक्तम्'नान्योऽनुभाव्यो बुद्ध्यास्ति तस्या नानुभवोऽपरः । ग्राह्यग्राहकवैधुर्यात् स्वयं सैव प्रकाशते' ॥ इति
स्वव्यतिरिक्तग्राह्यग्राहकविरहाद्बुद्धिः स्वयमेवात्मस्वरूपप्रकाशिका १५ प्रकाशवदिति समुदायार्थः । ननु ज्ञाने नीलाथाकारस्य कादाचित्क
स्यान्यथाऽनुपपद्यमानत्वात् तत्प्रसिद्धये तदाकारोऽर्थः परिकल्प्यः । तदप्यसत् । वासनासामर्थ्यादेव ज्ञाने तथाभूतस्याकारस्योत्पत्तीतोऽर्थसद्भावप्रसिद्धिः। अर्थाच्च तथाभूतज्ञानाकारभवस्वीकारे स्वप्नेन्द्र
जालगन्धर्वनगरादिज्ञाने तभावः म्यात् ।। तथाहि-- २० गुञ्जन्मङ्घमृदङ्गसङ्गिसुभगग्रामाभिरामं कणत्
वीणावेणुपिकस्वरध्वनिलसल्लास्यं च सत्प्रेक्षणम् । स्वप्ने कश्चन कौतुकव्यतिकरव्याक्षिप्तचित्तः स्फुटं
पश्यत्यस्ति न वस्तु यद्विरचयेज्ज्ञाने तदा स्वाकृतिम् ॥१४॥
१ यतः' इति भ. पुस्तके पाठः । २ धर्मकीर्तिकृतप्रमाणविनिश्चये प्रथमभागे। ३ 'विक' इति प. पुस्तके पाठः । ।
"Aho Shrut Gyanam"