________________
परि. १ सू. १६] स्याद्वादरत्नाकरसहितः सहोपलम्भानियमं निवर्तयति । सहोपलम्भानियमश्च निवर्तमानः स्वव्याप्यं भेदं निवर्तयति । तस्मादयं हेतुर्विपक्षाद्भेदात् स्वविरुद्धसहोपलम्भानियमव्याप्तान्निवर्तमानो राश्यन्तराभावादभेद एवावतिष्ठते इत्यविनाभावसिद्धिः । तदुक्तम् 'सहोपलम्भनियमादभेदो नीलतद्धियोः' इति । तथा प्रकाशन्ते भावा यच्च प्रकाशते तद्विज्ञप्तिमात्रं यथा सुखादिकमिति । ५ तथा यद्येन वेदनेन वेद्यते तत्ततो न भिद्यते यथा वेदनस्य स्वरूपं वेद्यन्ते च वेदनेन नीलादयः । भेदे हि ज्ञानेनैषां वेद्यत्वं न स्यात् । तादाम्यस्य नियमहेतोरभावात् । तदुत्पत्तेस्तु चक्षुरादिभिर्व्यभिचारित्वात् । अन्येनान्यस्यासम्बद्धस्य वेद्यत्वे चातिप्रसङ्गादिति भेदे नियमहेतोः सम्बन्धस्य व्यापकस्यानुपलब्ध्या भेदाद्विपक्षात् व्यावर्त्तमानं वेद्यत्वमभे- १० देन व्याप्यत इति हेतोः प्रतिबन्धसिद्धिः ।
एतैः कलङ्कविकलैः कथितैः प्रमाणे__आनार्थयोभिदि हठेन निराकृतायाम् ।। सद्योगिनीव सततात्मकृतप्रकाशा
विज्ञप्तिरेव बत राजति जीवलोके ॥ १३९ ॥ अथ ब्रूयादर्थाकारो ग्राह्यत्वेनैव प्रतीयते बोधाकारस्तु ग्राहकत्वेनैवेति कथमनयौरेक्यं, एकत्वे व्यत्ययेनापि तयोः प्रतिभासस्तस्माद्भिन्न एव ज्ञानादर्थ इति ।
श्रुतं मयेदं यदुतान्य एव संवेदनादर्थ इति त्वदुक्तम् ।।
अयुक्तमेतत्परमार्थतो धीर्यग्राहकग्राह्यतया विमुक्ता ॥१४०॥ २० तथाप्रतीतिव्यवस्था पुनरनाद्युपप्लववासनासामर्थ्यादेवोपपद्यते । तदुक्तम्
'अवेद्यवेदकाकारा यथा भ्रान्तैर्निरीक्ष्यते । विभक्तलक्षणग्राह्यग्राहकाकारविप्लवा ॥१॥ तथा कृतव्यवस्थेयं केशादिज्ञानभेदवत् ।
यदा तदा न सन्नोद्यग्राह्यग्राहकलक्षणा' ॥ २ ॥ इति २५ १ धर्मकीर्तिकृतप्रमाणसमुच्चये प्रथमे भागे।
"Aho Shrut Gyanam"