SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ १४८ प्रमाणनयतत्त्वालोकालङ्कारः [परि. १ सू. १५ चेत् । एवमेतन्मुख्यवृत्त्या । उपचारवृत्त्या तु समारोपत्वमस्याद्रियामहे । तथाहि यथा गोगतजाड्यमान्द्यादिगुणसदृशजाड्यमान्यादिगुणयोगाद्वाहीके गोत्वं गोशब्दश्वोपचर्यते गौर्वाहीक इत्येवं तथा विपर्ययसंशयलक्षणसमारोपसमाश्रितायथार्थपरिच्छेदकत्वलक्षणगुणसदृशायथार्थपरिच्छेदकत्वगुणयोगादनध्यवसायेऽपि समारोपत्वं समारोपशब्दश्वोपचयते। समारोपोऽनध्यवसाय इत्येवं मुख्येनार्थेन सह सादृश्यमत्र सम्बन्धः । विपर्ययसंशयाभ्यां भेदेऽप्यस्य ताप्यप्रतीतिश्चोपचारप्रयोजनमिति । एवं च- मुख्यार्थस्य च बाधे तद्योग प्रयोजने च सति ॥ सिद्धोऽनध्यवसायोप्युपचारादिह समारोपः ॥ १३७ ॥१५॥ अथ प्रमाणसूत्रोपात्तं परशब्दं व्याख्यानयन्नाह ---- ज्ञानादन्योऽर्थः पर इति ॥ १६ ।। . ज्ञानात् ग्राहकात् सकाशादन्यो ग्राह्यतया पृथग्भूतोऽचेतनः सचे तनो वाऽर्थोऽर्थक्रियार्थिभिरर्यमानः कुम्भादिः । किमित्याह पर इति । १५ अत्र ज्ञानवादिनः प्रत्यवतिष्ठन्ते । विज्ञप्तिमात्रात्परमस्ति तत्त्वं ज्ञानवादिमतपरीक्षणम् । न मानसिद्धं परनामधेयम् ॥ ततः कथं तब्यवसाथिबोध परे प्रमाणं परिकीर्त्तयन्ति ।। १३८ । २० तथा चायं विश्वस्य विज्ञप्तिमात्रताप्रसाधनगुणः प्रयोगः । ययोः सहो पलम्भनियमस्तयोरभेदो यथा तैमिरिकोपलभ्यमानमृगाङ्कमण्डलयोः । सहोपलम्भनियमश्च ज्ञानार्थयोरिति व्यापकविरुद्धोपलब्धिः । भेदे हि नियमेन सहोपलम्भो न दृष्टो यथा स्तम्भकुम्भयोः एवं च सति भेदः सहोपलम्भानियमेन व्याप्तस्तद्विरुद्धश्च सहोपलम्भनियमो दृश्यमानः स्वविरुद्धं १ 'प्रसाधनानुगुणः' इति प. म. पुस्तकयोः पाठः । "Aho Shrut Gyanam"
SR No.009662
Book TitleSyadvada Ratnakar Part 1
Original Sutra AuthorVadidevsuri
AuthorMotilal Laghaji
PublisherMotilal Laghaji
Publication Year
Total Pages274
LanguageSanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy