SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ परि. १ सू. १५] स्याद्वादरत्नाकरसहितः . ननु विपर्ययादिस्त्रिप्रकारः समारोपः प्ररूापितस्तत्र विपर्ययस्य तावसमारोपत्वं प्रतीतमेवातस्मिँस्तद्गृहस्वरूपत्वात् । संशयस्य पुनः कथं तद्योक्ष्यते तद्विलक्षणत्वादिति । तदसत् । तद्विलक्षणत्वस्यासिद्धेः संशयोऽप्यतस्मिन्ननवस्थितानेकांशविकले स्थाण्यादिवस्तुनि तद्ग्राहितया प्रवर्तत इत्यतस्मिंस्तद्ग्रहस्वरूपत्वाद्भवत्येव समारोपः । . अनवस्थितानेककोटिसंस्पर्शित्वविशेषेण पुनरेककोटिसंस्पर्शिनो विपर्ययाद्भिन्नतयाऽसौ सूत्रितः । नन्वनध्यवसायस्य तर्हि कथं समारोपरूपता स हि वस्त्वेव न भवति कुतोऽतस्मिंस्तद्ग्रहस्वरूपम् । अभिहितं चास्यावस्तुत्वं भट्टेन 'वस्तुत्वाद्विविधस्येह सम्भवो दुष्टकारणात्' इति संशयविपर्यययोरेव वस्तुत्वमभिधता । तदसत् । यतः कुतोऽस्याव- १० स्तुत्वमुच्यते । सम्यग्ज्ञानानुत्पत्तिरूपतया तदभावस्वभावत्वादिति चेत् तर्हि संशयविपर्यययोरपि तत्प्राप्नोति । तयोरपि यथार्थव्यवसायास्वभावत्वात् । तयोरनेकांशानवस्थितप्रतिभासविपरीताकाराध्यवसायस्वरूपत्वाद्वस्तुस्वरूपत्वेऽकिञ्चित्करवेदनरूपत्वादनध्यवसायस्य कथमवस्तुत्वम् । तस्य सकलस्य स्वभावशून्यत्वेन कथमप्रमाणविशेषत्वं प्रमाण १५ न भवतीत्यप्रमाणमिति । प्रमाणप्रतिषेधमात्रेणेति चेत् । ननु कोऽस्य प्रमाणप्रतिषेधस्थाधारो यत्र प्रतीतिः स्यात् । विकल्पमात्रमिति चेत् तर्हि विकल्पमात्रमिदं प्रमाणं न भवतीति प्राप्तम् । पुरुषोऽयं ब्राह्मणो न भवतीति यथा । ततश्च नावस्तुरूपत्वमनध्यवसायस्य । ब्राह्मणविविक्तपुरुषमात्रवत् प्रमाणत्वविविक्तविकल्पमात्रस्य वस्तुत्वसिद्धेः । २० किञ्च न विकल्पमात्रस्यानध्यवसायत्वेनाप्रमाणत्वं युक्तम् । तस्या- .... ध्यवसायसामान्यरूपत्वात् । संवेदनमात्रमकिञ्चित्करं प्रमाणत्वनिषेधाधिकरणमिति चेत् तर्हि प्रमाणप्रतिषेधमात्रेणापि वस्त्वेव संवेदनरूपमाश्रीयते नानध्यवसायस्यावस्तुस्वभावता । अथायमस्तु वस्तु तथापि कथमस्थ समारोपत्वमतस्मिस्तध्यवसायस्य तल्लक्षणस्याभावादिति २५ १'हि' इत्यधिक प. पुस्तके । "Aho Shrut Gyanam"
SR No.009662
Book TitleSyadvada Ratnakar Part 1
Original Sutra AuthorVadidevsuri
AuthorMotilal Laghaji
PublisherMotilal Laghaji
Publication Year
Total Pages274
LanguageSanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy