SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ प्रमाणनयतत्त्वालोकालङ्कारः परि. १ सू. १४ अनध्यवसायस्तृतीयः समारोपभेदः अध्यवसायाद्विशेषोल्लेखिज्ञानादन्य इति कृत्वा ॥ १४ ॥ उदाहरणमाह-- यथा गच्छत्तृणस्पर्शज्ञानमिति ॥ १५॥ '५ गच्छतो व्रजतः सतः प्रमातुस्तृणस्पर्शविषयं ज्ञानं तृणस्पर्शज्ञानम न्यत्रासक्तचित्तत्वादेवंजातीयकमेवनामकमिदं वत्त्वित्यादिविशेषानुल्लेखि किमपि मया स्पृष्टमित्यालोचनमात्रमित्यर्थः । एतदुदाहरणदिशा बापरोऽपि प्रत्यक्षयोग्यविषयश्चानध्यवसायोऽवसेयः । तद्यथा, मञ्जुगुञ्जनसुभगभङ्गावलीवलयितकपोलपालिसलीलपरिचलन्मदकलचक्रवाले खरखुरशिखरसमुत्खातक्षोणितलतुरगनिकुरम्बेऽनणुमणिकिङ्कणीकाणरमणीयवैजयन्तीविसरप्रसाधितस्यन्दनकदम्बके करतलकलितनिशिततरवारिवारिविसरसम्पत्तिपत्तिसङ्घाते गतेऽपि प्रसिद्ध वचन काश्यपीपतौ कोऽप्यनेन पथा गत इति ज्ञानमात्रव्यासङ्गादनुल्लिखितविशेष प्रत्यक्षयोग्यवि. षयोऽनध्यवसायः । तथा नालिकेरद्वीपवासिनः कस्यचिदपरिज्ञातगोजा. १५ तीयस्य पुंसो देशान्तरमायातस्य केचन वननिकुञ्जे सास्नामात्रदर्शनात सामान्येन पिण्डमात्रमनुमाय को नु खल्वत्र प्रदेशे प्राणी स्यादिति जातिविशेषानुल्लेखि ज्ञानं परोक्षविषयोऽनध्यवसायः । नन्वयमनध्यव. सायः संशयान्न विशिष्यते । विशेषानवधारणात्मकत्वादिति न तर्क णीयम् । स्वरूपभेदात् । अनवस्थितानेककोटिसंस्पर्शित्वं हि संशयस्य २. स्वरूपं सर्वथा कोट्यसंस्पर्शित्वं चानध्यवसायस्यति महाननयोर्भेदः । सोऽयमनध्यवसायः सम्यग्मेदप्रभेदतोऽभिहितः ॥ व्यवसायग्रहणेन प्रमाणसूत्रे निरस्तो यः ॥ १३५ ॥ एवं च----- संशयविपर्ययाऽनध्यवसायात्मा स्फुटं समारोपः ॥ एष त्रिविधोऽप्युक्तः शिष्यव्युत्पत्तिसिद्धयर्थम् ॥ १३६ ॥ १ वैरि' इति प. पुस्तके पाठः। "Aho Shrut Gyanam"
SR No.009662
Book TitleSyadvada Ratnakar Part 1
Original Sutra AuthorVadidevsuri
AuthorMotilal Laghaji
PublisherMotilal Laghaji
Publication Year
Total Pages274
LanguageSanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy