________________
परि. १ सू. १४] स्याद्वादरत्नाकरसहितः । निरन्तरभयङ्करहुङ्कारमुखरमहामात्रप्रदीयमानस्थूलकवलकवलनाव्याकुलं मदकलमवलोक्य विकल्पयति किमिदमन्धकारनिकुरम्ब मूलकान् कवलयति, किं वा वारिवाहोऽयं बलाकावान् वर्षति गर्जति च । यद्वा बान्धवोऽयं 'राजद्वारे स्मशाने च यस्तिष्ठति स बान्धवः' इति परमाचार्यवचनात् । अथवा योऽयमासन्नमेदिनीपृष्ठप्रति- ५ ष्ठायी पुरुषस्तस्य च्छायेयं स्त्यानीभूतेति । ___ दूषयति च । नाद्यः पक्षोऽन्धकारस्य सूर्पयुगलप्रस्फोटनाभावात् । नापि द्वितीयः, स्तनयित्नोः स्तम्भचतुष्टयाभावात् । नापि तृतीयः, बन्धोरस्मदर्शननिबन्धनलगुडभ्रमणासम्भवात् । नापि तुरीयः, न हि नरशिरःशतोद्विरणनिगरणं सम्भवति छायायाः । ततो न किञ्चिदेत- १० दिति । न चैतावता मतङ्गजस्वभावो व्यावर्त्तते । एवं धर्मादिविकल्पै. रपि न सन्देहस्वरूपं व्यावर्तते। प्रत्यक्षप्रतिपन्नस्यापि पदार्थस्वरूपस्यापलापे सुखदुःखादेरप्यपलापः प्रसज्येत । कथं च धम्मिविषयो धर्मविषयो वेत्यादिप्रश्नसमुत्पादकसन्देहमेदिनीधरशिखरसमधिरूढ एवार्य संशयं निराकुर्यान्नो चेदाकुलप्रज्ञः । अथोत्पत्तिकारणाभावादसाधारण- " स्वरूपाभावाद्विषयाभावाच्च संशयः प्रतिक्षिप्यते । तदसत् । तदुत्पत्तिकारणस्य साधकबाधकप्रमाणाभावलक्षणस्य सद्भावात् । अनवस्थितानेककोटिसंस्पर्शिप्रतिपत्तिलक्षणस्यासाधारणस्वरूपस्य संशये विद्यमानत्वात्। प्रोक्तनिदर्शनेषु संशयविषयस्य स्पष्टं दर्शितत्वाच्च । ततश्च-- यस्माजन्मनिमित्तमस्य सुघटं यस्मादसाधारणं
रूपं सम्यगमुख्यविश्वविदितं युक्तोऽस्य यगोचरः । यस्मादप्यनुयोगमत्र कुरुषे त्वं संशयानः सखे
तस्मादेष निजं स्वरूपमयतां निःसंशयः संशयः ॥१३४॥१३॥ अथ क्रमायातमनध्यवसायं साधयन्नाहकिमित्यालोचनमात्रमनध्यवसाय इति ॥ १४॥ २५ किमित्यालोचनमात्रं अस्पष्टविशिष्टविशेषज्ञानमात्रम् । किमित्याह ।
१०
"Aho Shrut Gyanam"