SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ १४४ प्रमाणनयतत्त्वालोकालङ्कारः [परि. १ सू. १३ तहृद्धेः संशयरूपता । तात्त्विकार्थव्यवसितिरूपत्वात् करतलकलितकुवलयादिव्यवसायवत् । अथातात्त्विकः । तदाप्यतात्त्विकार्थगोचरत्वात् केशकूर्चादिज्ञानवद्विपर्यय एव संशयः प्राप्तः । अथ धर्मः, स स्थाणुत्वलक्षणः पुरुषत्वलक्षण उभयं वा । पक्षत्रयेऽपि तात्त्विका५ तात्त्विकपक्षयोः पूर्ववद्दोषः । अथैकस्य तात्त्विकत्वमन्यस्यातात्त्विकत्वम् । तथापि तद्विषयं ज्ञानं भ्रान्तमभ्रान्तं चेत्युभयरूपं प्राप्तम् । अथ सन्दिग्धोऽर्थस्तत्र प्रतिभासते । तत्रापि तात्त्विकातात्त्विकत्वविकल्पयोः स एव दोषः । तदयं संक्षेप:--- १० यत्र किञ्चिद्वितसंशये स्फुरत्यतात्त्विकं तत्किमथापि तात्त्विकम् ॥ अतात्त्विकं चेत् स भवेद्विपर्ययः परत्र पक्षे पुनरस्य मानता ॥१३२॥ तन्न संशयः कोऽपि विचार्यमाणः प्रतीतिपद्धतिमध्यारोहतीति । __ आः कुण्ठवर्य तदिमामलीकवाचालतां कलयताऽत्र ॥ ___ उद्वेजिता नितान्तं भवता मनोऽनभिज्ञेन ॥ १३३ ॥ यतः संशयः सकलपाणिनामनवास्थितानेककोटिसंस्पर्शिप्रतिपत्त्यात्मकत्वेन स्वात्मसंवेद्यो वर्तते स च धम्मिविषयो धर्मविषयो वा भवतु किमेभिरप्रमाणमूलैर्गजविकल्पकल्पैर्विकल्पैरस्य स्वरूपमपहोतुं पार्यते । तथाहि कश्चिद्भौतः कुतर्कमुखरबठरखैण्डिककुडम्बकादिकलको लाहलाकर्णनमात्रवातूलः कथमपि नृपतिमन्दिरद्वारमुपागतः प्रथम२० जलधरनीरन्ध्रधाराधोरणीधौतसमुद्भुराञ्जनगिरिशृङ्गसोदरं सपदि विद लितकुन्दकलिकावदातदन्तमुशलद्वितयरमणीयमनुगलविगलदविरलमदजलाकुलकपोलस्थलममन्दमन्दरोन्मथ्यमानमहाम्भोधिध्वनिगभीरगर्जितभूर्जितप्रभञ्जनप्रेर्यमाणध्वजपटप्रान्तप्रचलत्कर्णतालमन्तरालस्थूलचलनचतुष्टयप्रतिष्ठितमनवरतपरिचलत्प्रबलसुण्डादण्डडामरमनतिनिकटनिषण्ण १ 'खडिक' इति म. पुस्तके पाठः । "Aho Shrut Gyanam"
SR No.009662
Book TitleSyadvada Ratnakar Part 1
Original Sutra AuthorVadidevsuri
AuthorMotilal Laghaji
PublisherMotilal Laghaji
Publication Year
Total Pages274
LanguageSanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy